पृष्ठम्:मृच्छकटिकम्.pdf/२७६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६८
मृच्छकटिके

 चारुदत्तः---शान्तं पापम् ( दृष्ट्वा स्वगतम्) अद्यावगच्छामि । (‘समसंस्थित-' [ १०।१६ ] इत्यादि पठति, प्रकाशम् ‘एताः पुनर्हर्म्य-गताः स्त्रियो माम् [१०।११] इत्यादि पुनः पठति )

 चाण्डालः--ओशलध अज्जा ! ओशलध ।।

किं पेक्खध शप्पुलिशं अजशवशेण प्पणजीवाशं ।
कूवे खंडिदपाशं कंचणकलशं व्व डुब्बंतं ॥ २४ ॥

[ अपसरतार्याः ! अपसरत ।।

किं पश्यत सत्पुरुषमयशोवशेन प्रनष्टजीवाशम् ।।
कूपे खण्डितपाशं काञ्चनकलशमिव मज्जन्तम् ॥]

(चारुदत्तः सकरुणम् , 'शशिविमलमयूख-( १०-१३ ) इत्यादि पठति )

 अपरः–अले, पुणो वि घोशेहि । [ अरे, पुनरपि घोषय ।] ( चाण्डालस्तथा करोति )

 चारुदत्तः--

प्राप्तोऽहं व्यसनकृशां दशामनार्या
यत्रेद फलमपि जीवितवसानम् ।
एषा च व्यथयति घोषणा मनो मे
श्रोतव्यं यदिदमसौ मया हतेति ॥ २५ ॥

( ततः प्रविशति प्रासादस्थो बद्धः स्थावरकः )

 स्था1वरकः--( घोषणामाकर्त्य, सवैक्लव्यम् ) कथं अपावे चालुदतेवावादीअदि १ । हग्गे णिअलेण शामिणा बंधिदे । भोदु आक्कंदामि । शृणाध अज्जा ! शुणाध । अत्थि दाणिं मए पावेण पाहणपडिवत्तेण पुप्फकलंडअजिण्णुज्जाणं वशंतशेणा णीदा । तदो मम शामिणा मं


प्रेक्षध्वे सत्पुरुषमयशोवशेन नष्टजीवनम् । कूपे खण्डितपाशं काश्चनकलशमिव मज्जन्तम् ॥२४॥ कुष्यन्तं क्षिप्यमान(ण)म् । 'जीवाशं’ ‘जीवप्रत्याशं' इत्यपि पाठा-

, टिप्प०—-1 चारुदत्तस्यायं प्रवहणवाहकः ।