पृष्ठम्:मृच्छकटिकम्.pdf/२७५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६७
दशमोऽङ्कः

 चाण्डालः–दालआ ।

ण हु अम्हे चांडाला चांडालकुलम्मि जादपुव्या वि।
जे अहिभवंति शाहूं ते पावा ते अ चांडाला ॥ २२ ॥

[दारक!

न खलु वयं चाण्डालाश्चाण्डालकुले जातपूर्वा अपि ।
येऽभिभवन्ति साधुं ते पापास्ते च चाण्डालाः ॥]

 दारकः--ता कीस मारेध आवुकं ? । [तत्किमर्थं मारयत पितरम् ? ।]

 चाण्डालः–दीहाओ, अत्त लाअणिओओ खु अवलज्झदि, ण हुअम्हे । [ दीर्घायुः ! अत्र राजनियोगः खल्वपराध्यति, न खलु वयम् ।।

 दारकः–वावादेध मं, मुंचध आवुकं । [ व्यापादयत माम्, मुञ्चत पितरम् ।

 चाण्डालः–दीहाओ ! एवं भणंते चिलं मे जीव । [ दीर्घायुः ! एवं भणश्चिरं मे श्रीव १]

 चारुदत्तः–( सास्रं पुत्रं कण्ठे गृहीत्वा )

इदं तत्स्नेहसर्वस्वं सममाढ्यदरिद्रयोः ।
अचन्दनमनौशीरं हृदयस्यानुलेपनम् ॥ २३ ॥

(अंसेन बिभ्रत्-'[१०-२१] इत्यादि पुनः पठति, अवलोक्य स्वगतम् , अमी हि वस्त्रान्तनिरुद्धवक्राः' [ १०।१६] इत्यादि पुनः पठति )

 विदूषकः--भो भद्दमुहा मुंचध पिअवअस्सं चालुदत्तं मं वावादेध । [भो भद्रमुखाः ! मुञ्चत प्रियवयस्यं चारुदत्तम् : मां व्यापादयत।]


मन्त्रितः । मारित इत्येके ।। २१ ॥ ण हु अम्हे इत्यादि । गाथा। ‘न [खलु] अयं चाण्डालाश्चाण्डालकुले जातपूर्वा अपि । येऽभिभवन्ति साधुं ते पापास्ते च चाण्डालाः ॥ २२ ॥ अमी हि त्वा देवा दावामर्धमद्यावगच्छामीत्यादि सर्वः स्वाधीन इत्यर्थः (१) । इदमिति ॥ २३ ॥ किं पेक्खधेति । गाथा । किं