पृष्ठम्:मृच्छकटिकम्.pdf/२७४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६६
मृच्छकटिके

अब्भुदए अवशाणे तहे अ लत्तिंदिवं अहदमग्गा ।
उद्दामे व्व किशोली णिअदी खु पडिच्छिदुं जादि ॥ १९ ॥

अण्णं च,----

शुक्खा वि वदेशा शे किं विणमिअमत्थएण काअव्वं ।
लाहुगहिदे वि चंदे ण वंदणीए जणपदश्श ॥ २० ॥

[ अरे, आर्यचारुदत्तं निरुपपदेन नाम्नालपसि ? । अरे, पश्य

अभ्युदयेऽवसाने तथैव रात्रिंंदिवमहत्तमार्गा ।
उद्दामेव किशोरी नियतिः खलु प्रत्येषितुं याति ।।

अन्यच्च,-- शुष्का अपि प्रदेशा अस्य किं विनमितमस्तकेन कर्तव्यम् । राहुगृहीतोऽपि चन्द्रो न वन्दनीयो जनपदस्य ॥]</poem>}}}}

 दारकः–अरे रे चांडाला ! कहिं मे आवुकं णेध [अरे रे चाण्डालाः ! कुत्र मम पितरं नयत ? । ]

 चारुदत्तः---वत्स ! ।

अंसेन बिभ्रत्करवीरमालां स्कन्धेन शूलं हृदयेन शोकम् ।
आघातभद्यामनुप्रयामि शामित्रमालब्धुमिवाध्वरेडज़ः ॥ २१ ॥


निरूपपदेन आर्य इत्यादिविशेषणशून्येन । अब्भुदए इत्यादि । गाथा । अभ्युदये चावसाने च तथैव रात्रिंंदिवमहतमाग । अव्याहतप्रसिद्धा इत्यर्थः । उद्दामेव किशोरीनियतिर्दे (दै) वं खलु प्रत्येषितुं याति ॥ १९॥ शुष्केत्यादि । गाथा । अत्र द्वितीये खण्डचतुर्थपञ्चमभाग पञ्चममात्रो( ?) शुष्का अपि प्रदेशा अङ्गानि । शे अस्य । किं विनमतमस्तकेन अवनतशिरसा किं कर्तव्यम् । अस्य स्त्री [ ह ] णस्य लज्जया- नतशिरसोऽपि न कुत्सेत्यर्थः । कुत एवमित्यत आह–राहुगृहीत इव चन्द्रो वन्दनीयो जनपदस्य । *किं' शब्द आवजर्त्योभयोर्धयोर्योज्य इत्याहुः ॥२०॥ अंसेनेति । आघातं अधिकरणवधस्थानम् । वालकम् (१) 'स(श) मिता यज्ञे' इति पाणिनेः सूत्रम् । शमितरि भवं शामित्रं यज्ञे पशुघातस्थानम् । आलब्धोऽभि-