पृष्ठम्:मृच्छकटिकम्.pdf/२७३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६५
दशमोऽङ्कः

ले दालआ ! आअच्छ। [ हे पौराः ! क्षणमन्तरं दत्त । एष आर्यचारुदत्तः पुत्रमुखं पश्यतु । आर्य ! इत इतः । आगच्छ रे दारक ! आगच्छ ।]

( ततः प्रविशति दारकमादाय विदूषकः )

 विदुषकः-–तुवरदु तुवरदु भद्दमुहो । पिदा दे मारिदुं णीअदि । [त्वरतां त्वरतां भद्रमुखः । पिता ते मारयितुं नीयते । ]

 दारकः---हा ताद ! हा आवुक ! । [हा तात ! हा पितः ।।]

 विदूषकः—हा पिअवअस्स ! कहिं मए तुमं पेक्खिदव्वो । हा प्रियवयस्य । कुत्र मया त्वं द्रष्टव्यः ? ।]

 चारुदत्तः--(पुत्रं मित्रं च वीक्ष्य ) हा पुत्र ! हा मैत्रेय । । (सकरुणम् ) भोः, कष्टम् ।।

चिरं खलु भविष्यामि परलोके पिपासितः ।।
अत्यल्पमिदमस्माकं निवापोदकभोजनम् ॥ १७ ॥

किं पुत्राय प्रयच्छामि । (आत्मानमवलोक्य यज्ञोपवीतं दृष्ट्वा ) आं, इदं ताविदस्ति मम च।

अमौक्तिकमसौवर्णं ब्राह्मणानां विभूषणम् ।।
देवतानां पितॄणां च भागो येन प्रदीयते ॥ १८ ॥

( इति यज्ञोपवीतं ददाति )

 चाण्डालः -- आअच्छ ले चालुदत्ता ! आअच्छ । [ आगच्छ रे चारुदत्त ! आगच्छ ।]

 द्वितीयः-अले ! अज्जचालुदत्तं णिलुववदेण णामेण आलवेशि। अले । पेक्ख


हत्थादो हस्तात् ॥ आवुक पितः ॥चिरमिति ॥१७॥ अमौक्तिकमिति १८