पृष्ठम्:मृच्छकटिकम्.pdf/२७२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६४
मृच्छकटिके

 चारुदत्तः– सर्वतोऽवलोक्य )

अमी हि वस्त्रान्तनिरुद्धवक्त्राः प्रयान्ति मे दूरतरं वयस्याः ।
परोऽपि बन्धुः सुखसंस्थितस्य मित्रं, न कश्चिद्विषमस्थितस्य ॥१६॥

 चाण्डालौ--ओशालणं किदं । विवित्तं लोअमग्गं । ता आणेध पदं दिण्णवज्झचिण्हं । [अपसारणं कृतम्, विविक्तो राजमार्गः। तदानयतैनं दत्तवध्यचिह्नम् ।। (चारुदत्तो निःश्वस्य, 'मैत्रेय ! भोः किमिदमद्य' [ ९।२९ ] इत्यादि पठति ।)

( नेपथ्ये )

ही ताद ! हा पिअवअस्स ! [ हा तात ! हा प्रियवयस्य !]

 चारुदत्तः–( आकर्ण्य, सकरुणम्) भोः स्वजातिमहत्तर ! इच्छा- म्यहं भवतः सकाशात्प्रतिग्रहं कर्तुम् ।।

 चाण्डालौ---किं अम्हाणं हत्थादो पडिग्गहं कलेशि ? । [किमस्माकं हस्तान्प्रतिग्रहं करोषि ? ।]

 चारुदत्तः-शान्तं पापम् ; नापरीक्ष्यकारी दुराचारः पालक इव

 चाण्डालः । तत्परलोकार्थं पुत्रमुखं द्रष्टुमभ्यर्थये ।।

 चाण्डालौ-एव्वं कलीअदु । [ एवं क्रियताम् ।]

(नेपथ्ये )

हा ताद ! ही आवुक [हा तात ! हा पितः ।। ( चारुदत्तः श्रुत्वा, सकरुणम्, 'भोः ! स्वजातिमहत्तर' [ पृष्ठे] इत्यादि पठति )

 चाण्डालौ---अले पउला ! खणं अंतलं देध । एशे अज्जचालुदत्ते पुत्तमुहं पेक्खदु । ( नेपथ्याभिमुखम् ) अज्ज ! इदो इदो । आअच्छ


लोकः लोकस्य सुखसंस्थितस्य कार्ये । तत्तिल्लः चिन्तापरः । उपयुक्त इत्यर्थः । विनिपतितानां नराणां प्रियकारी दुर्लभो भवति ॥ १५ ॥ अमी इति ॥ १६ ॥ • टिप्प---1 अत्र करूणो रसः, सुखसंस्थितस्य परोऽपरिचितोऽपि बन्धुर्भवति, न पुनर्विपद्गस्तस्येति भावः ।


-