पृष्ठम्:मृच्छकटिकम्.pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६३
दशमोऽङ्कः

 चारुदत्तः---( सनिर्वेदं स्वगतम् )

मखशतपरिपूतं गोत्रमुद्भासितं मे
सदसि निबिडचैत्यब्रह्मघोषैः पुरस्तात् ।
मम मरणद1शायां वर्तमानस्य पापैः
स्तदसदृशमनुष्यैर्घुष्यते घोषणायाम् ॥ १२ ॥

(उद्वीक्ष्य, कर्णौ पिघाय) हा प्रिये वसन्तसेने!

शशिविमलमयूखशुभ्रदन्ति । सुरुचिरविद्रुमसन्निभाधरौष्टि ! ।।
तव वदनभवामृतं निपीय कथमवशो ह्यशोविषं पिबामि १॥१३॥

 उभौ---ओशलध अज्जा ! ओशलध ।

एशे गुणलअणणिही शज्जणदुक्खाण उत्तलणशेदू ।
अशुवण्णं मंडणअं अवणी अदि अञ्ज णअलीदो ॥ १४ ॥

अण्णं च,-.

शब्वे खु होइ लोए लोए शुहशठिदाण तत्तिल्लः ।।
विणिवडिदाणं णलाणं पिअकाली दुल्लहो होदि ॥ १५ ॥

[ अपसरतर्याः ! अपसरत ।

एष गुणरत्ननिधिः सज्जनदुःखानामुत्तरणसेतुः ।
असुवर्ण मण्डनकमपनीयतेऽद्य नगरीतः ॥

अन्यञ्च,-

सर्वः खलु भवति लोके लोकः सुखसंस्थितानों चिन्तायुक्तः ।
विनिपतितानां नराणां प्रियकारी दुर्लभो भवति ॥]


शलोत्ते सलोप्त्रः ॥ मखेति ॥ १२ ॥ उद्वीज्य उद्वेगं कृत्वा । शशीति ॥ १३ ॥ एश इत्यादि । गाथाद्वयम् । एष गुणरत्ननिधिः सज्जनदुःखानामुत्तरणसेतुः । असुवर्णं मण्डनमपनीयतेऽद्य नगरीतः ॥ १४ ॥ सर्वः खलु भवति टिप्पः--1 यज्ञस्य सदसि महति मण्डपे निविड़ानि धनानि चैत्यान्यायतनानि

यत्र ब्रह्मणां वेदधोषघ्नैर्गोत्रं कुलमुद्भासितमासीदेव, कुलमद्य पापैरसद्दशैरननुगुणैरयोग्यैश्चाण्डलादिमनुष्यैरनुपदं राजमार्गे घुष्यत इत्ययं महाननर्थ इति भावः ।