पृष्ठम्:मृच्छकटिकम्.pdf/२६८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६०
मृच्छकटिके

 चाण्डालौ--ओशलध अज्जा ! ओशलध ।

किं पेक्खध छिज्जंतं शप्पुलिशं कालपलशुधालाहिं १ ।
शुअणशणाधिवाशं शज्जणपुलिशमं पदं ॥ ४ ॥

आअच्छ ले चालुदत्ता ! आअच्छ । [ अपसरतार्याः ! अपसरत ।

किं पश्यत छिद्यमानं सत्पुरुषं कालपरशुधाराभिः ।
| सुजनशकुनाधिवासं सज्जनपुरुषद्रुममेतम् ॥

आगच्छ रे चारुदत्त ! आगच्छ ।]

 चारुदत्तः--पुरुषभाग्यानामचिन्त्याः खलु व्यापाराः, यदहमीदृशीं दशामनुप्राप्तः ।।

स1र्वगात्रेषु विन्यस्तै रक्तचन्दनहस्तकैः ।।
पिएचूर्णावकीर्णश्च पुरुषोऽहं पशुकृतः ॥ ५॥

( अग्रतो निरूप्य) अहो, तारतम्यं नराणाम् । ( सकरुणम् )

अमी हि दृष्ट्वा मदुपेतमेतन्मर्त्यं धिगस्त्वित्युपजातबाष्पाः ।
अशक्नुवन्तः परिरक्षितुं मां स्वर्गं लभस्वेति वदन्ति पौराः ॥ ६ ॥

 चाण्डालौ-ओशलध अज्जा ! ओशलध । किं पैक्खध ।।।

इंदे पवाहिअंते गोप्पेशवे शंकमं च तालाणं ।।
शुपुलिशपाणविपत्ती चत्तालि इमे ण दट्टव्वा ॥ ७ ॥


पेक्खधेति । गाथा । किं प्रेक्ष्यथ छेद्यमानं सत्पुरुषं कालपरशुधाराभिः । सुजनशकुनाधिवासं सज्जनपुरुषद्रुममेतम् ॥ ४ ॥ सर्वैति । पिष्टचूर्णं श्यामतण्डुलचूर्णम् । पशुर्देवतार्थ छागादिः ॥ ५ ।। अमी इति । मदुपेतं मदर्पितं यथा स्यादेवम् । उद्गतबाष्पाः । मदिति पञ्चम्येकवचनान्तम् । मदुपगतमीदृशमवस्थान्तरं दृष्ट्वेति वार्थः ॥ ६ ॥ इन्द्रेत्यादि । गाथा । इन्द्र प्रवास्यमानो यद्वा प्रवाह्यमानो टिप्प०---1 हस्ता इव हस्तका रक्तचन्दनलिप्तहस्तचिह्नानि, स्वार्थे कन् । पिष्टंतण्डुलपिष्टं, चूर्णं तिलचूर्णं, तैरवकीर्णो व्याप्तोऽहं, अपशुरपि पशुवत् देवीवलिदानाय छागादिर्यथोपाहियते तद्वत् संपद्यमानीकृतः पशूकृतोऽस्मि ।

••••••••••