पृष्ठम्:मृच्छकटिकम्.pdf/२६७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५९
दशमोऽङ्कः

दशमोऽङ्क

( ततः प्रविशति चाण्डाल1द्वयेनानुगम्यमानश्चारुदत्तः )

 उभौ-

तक्किं ण कलअ कालण णववहबंधणअणे णिउणा ।
अचिलेण शीशछेअणशूलालोवेशु कुशलम्ह ॥ १॥

ओशलध अज्जा ! ओशलध । एशे अज्जचालूदते

दिण्णकलचीलदामे गहिवे अम्हेहिं वज्झपुलिसेहिं ।
दीवे व्व मंदणे हे थोअं थोअं खअँ जादि ॥ २ ॥

[तत्किं न कलय कारणं नववधबन्धनयने निपुणौ ।
अधिरेण शीर्षच्छेदनशूलारोपेषु कुशलौ स्वः ॥

अपसरतार्याः अपसरत । एष आर्य चारुदत्तः।

दत्तकरवीरदामा गृहीत आवाभ्यां वध्यपुरुषाभ्याम् ।
दीप इव मन्दस्नेहः स्तोकं स्तोकं क्षयं याति ॥]

 चारूदत्तः--( सविषादम् )

नयन सलिलसिक्तं पांशुरुक्षीकृताङ्गं
पितृवनसुमनोभिर्चेष्टितं मे शरीरम् ।
विरसमिह रटन्तो रक्तगन्धानुलिप्तं
बलिमिव परिभोक्तुं वायसास्तर्कयन्ति ॥ ३ ॥


तक्किमिति ॥ १ ॥ दिएणकलवीलेत्यादि । गाथा । दत्तकरवीरमालो गृहीत आवाभ्यां वध्यपुरुषाभ्याम् । दीप इव मन्दस्नेहः स्तोकं स्तोकं क्षयं याति ॥ २ ॥ नयनेति । पितृवनं श्मशानम् । तर्कयन्ति उत्प्रेक्षन्ते ॥ ३ ॥ किं टिप्प-~-1 'गोदा-आहीन्ता' नामानाविमौ वधक्षिानुष्ठातारौ राजनियुक्तौचाण्डालौ ।