पृष्ठम्:मृच्छकटिकम्.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५८
मृच्छकटिके

विषसलिल1तुलाग्निप्रार्थिते मे विचारे
क्रकचमिह शरीरे वीक्ष्य दातव्यमद्य ।
अथ रिपुवचनाद्वा ब्राह्मणं मां निहंसि
पतसि नरकमध्ये पुत्रपौत्रैः समेतः ॥ ४३ ॥

अयमागतोऽस्मि ।।

( इति निष्क्रान्ताः सर्वे )

इति व्यवहारो नाम नवमोऽङ्कः।


उत्पातकल्पैरित्यर्थः ॥ ४१ ॥ नृणामिति ॥ ४२ ॥ विषसलिलेति । विषादिपरीक्षाप्रार्थितेऽन्विष्टे । विचारे । क्रकचं दातव्यम् । अर्हे तव्यः (१) । यदि मयोक्तं क्रियते तदा ककचदानमहमेवेति भावः (१) । अथ विचारनिरपेक्षं नृपतिं ह्रदि स्वीकृत्य वदति ॥ ४३ ॥

इति व्यवहारो नाम नवमोऽङ्कः ।

  • -*------

--- -


-*-*-*-*-*-*-*-*-

  • -*-*-

टिप---- इयं पालकराजानमुद्दिश्योक्तिः 1 विष-सलिल-तुला-वह्निभिः दिव्यसाधनैः परीक्षायामिह शरीरेयडच ऋकचं शस्त्रं दातव्यम् । रिपुवचनाद् शकारवचनादित्यर्थः ।