पृष्ठम्:मृच्छकटिकम्.pdf/२६५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५७
नवमोऽङ्कः

 सखे मैत्रेय ! गच्छ, मद्वचनादम्बामपश्चिममभिवादयस्व । पुत्रं च मे रोहसेने परिपालयस्व ।।

 विदूषकः---मूले छिण्णे कुदो पादवस्स पालणं । [मूले छिन्ने कुतः पादपस्य पालनम् ?।]

 चारुदत्तः----मा मैवम् ।

नृणां लोकान्तरस्थानां देहप्रतिकृतिः सुतः ।।
मयि यो वै तव स्नेहो रोहसेने स युज्यताम् ॥ ४२ ॥

 विदूषकः–भो वअस्स ! अहे ते पिअवअस्सो भविअ तुए विरहिदाइं पाणाइँ धारेमि ।। [ भो वयस्य ! अहं ते प्रियवयस्यो भूत्वा वया विरहितान्प्राणान्धारयामि ।]

 चारुदत्तः-रोहसेनमपि तावद्दर्शय ।

 विदूषकः–एव्वं, जुज्जदि । [ एवम् , युज्यते ।

 अधिकरणिकः---भद्र शोधनक ! अपसार्यतामयं बटुः ।

(शोधनकस्तथा करोति )

 अधिकरणिक-कः कोऽत्र भोः । । चाण्डालानां दीयतामादेशः ।

( इति चारुदत्तं विसृज्य, निष्कान्ताः सर्वे राजपुरुषाः )

 शोधनकः----इदो आअच्छदु अज्जो । [इत आगच्छत्वार्यः । ]

 चारुदत्त-( सकरुणम्, 'मैत्रेय भोः 1 किमिदमद्य' (९।२९) इत्यादि पठति; आकाशे )

दिपः---1 नितान्तमन्तिममित्याशयः । तथा च प्रयोगः ( उत्तररामचरिते १)

  • अयमपश्चिमस्ते रामस्थ शिरसि पादपङ्कजस्पर्शः' इति । देहस्य प्रतिकृतिः प्रतिमा,

अपरो देर इत्यर्थः; तथा च श्रुतिप्रामाण्यम्-‘स जाया जाया भवति यदस्यां जायते पुनः', 'अङ्गादङ्गात्संभवसि ह्रदयादधि जायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतम्' इति ।




*-*-*-*-*-*-*-*-*****************