पृष्ठम्:मृच्छकटिकम्.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५६
मृच्छकटिके

 शकारः----( स्वगतम् ) कडं गए एदश्श अत्तणो शलिशं । शंपदं गच्छामि । [कृतं मयैतस्यात्मनः सदृशम् , सांप्रतं गच्छामि । ( इति निष्क्रान्तः ) ।

 अधिकरणिकः----आर्यचारुदत्त ! निर्णये वयं प्रमाणम् ; शेषे तु राजा । तथापि शोधनक । विज्ञाप्यतां राजा पालकः----

अयं हि पातकी विप्रो न वध्यो मनुरब्रवीत् ।।
राष्ट्रवादस्मात्तु निर्वास्यो विभवैरक्षतैः सह ॥ ३९ ॥

 शोधनकः-जं अज्जो आणवेदि । ( इति निष्क्रम्य, पुनः प्रविश्य, सास्रम् ) अज्जा ! गदम्हि तहिं । रा पालओ भणादि--जेण अत्थकल्लवतस्स कालणादो वसंतसेणा वावादिदा, तं ताइं ज्जेव आह- रणाइं गले बंधिअ डिंडिमं ताडिअ दक्खिणमसाणं णइअ सूले भज्जेध' त्ति । जो को वि अवरो एरिसं अकजेजं अणुचिट्ठदि सो एदिणा सणिआरदंडेण सीसीअदि । [ यदार्य आज्ञापयति, आर्याः ! गतोऽस्मि तत्र। राजा पालको भणति-'येनार्थकल्यवर्तस्य कारणाद्वसन्तसेना व्यापादिता, तं तान्येवाभरणानि गले बङ्वा डिंण्डिमं ताडयित्वा दक्षिणश्मशानं नीत्वा शूले भङ्क्त' इति । यः कोऽप्यपर ईद्दशमकार्यमनुतिष्ठति स एतेन सनिकारदण्डेन शास्यते ।]

 चारुदत्तः---अहो, अविमृश्यकारी राजा पालकः । अथवा

ईदृशे व्यवहाराग्नौ मन्त्रिभिः परिपातिताः ।
स्थाने खलु महीपाला गच्छन्ति कृपणां दशाम् ॥ ४० ॥

अपि च,-

ईदृशैः श्वेतकाकीयै राज्ञः शासनदूषकैः ।
अपापानां सहस्राणि हन्यन्ते च हतानि च ॥ ४१ ॥


रत्नम् ॥ ३८ ॥ कडं कृतम् । शलीशं सदृशम् ॥ अयमिति ॥ ३९ ॥ ईद्दश इति ॥ ४० ॥ ईदृशैरिति । द्रुपदादीनां श्वेतकाकीयत इवार्थे च्छः(१)।