पृष्ठम्:मृच्छकटिकम्.pdf/२६३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५५
नवमोऽङ्कः

मया किल नृशंसेन लोकद्वयमजानता ।
स्त्रीरत्नं च विशेषेण शेषमेषोऽभिधास्यति ॥ ३८ ॥

 शकारः---वावादिदा । अले ! तुमं पि भण, मए वावादिदेति । { व्यापादिता । अरे! त्वमपि भण, मया व्यापादितेति ।]

 चारुदत्तः--त्वयैवोक्तम् ।।

 शकारः--शुणेध शुणेध भट्टालका ! एदेण मालिंदा। एदेण ज्जेव शंशए छिण्णे । एदश्श दलिद्दचालुदत्तश्श शालीले दंडे धालीअदु । [ श्रृणुत श्रृणुत भट्टारकाः ! एतेन मारिता । एतेनैव संशयश्छिन्नः । एतस्य दरिद्रचारुदत्तस्य शारीरो दण्डो धार्यताम् ।]

 अधिकरणिकः---शोधनक ! यथाह राष्ट्रियः । भो राजपुरुषाः । गृह्यतामयं चारुदत्तः ।।

(राजपुरुषा गृह्णन्ति )

 वृद्धा--पसीदंतु पसीदंतु अज्जमिस्सा!। (जो दाव चोरेहिं अव हिस्स-' इत्यादि पूर्वोक्तं पठति ) ता जदि धावादिदा मम दारिआ वावादिदा । जीवदु मे दीहाऊ । अण्णं च, अस्थिपञ्चस्थिणं व्ववहारो । अहं अत्थिणी । ता मुंंचध एदं । [प्रसीदन्तु प्रसीदन्त्वार्यमिश्राः ! तद्यदि व्यापादिता मम दारिका, व्यापादिता । जीवतु मे दीर्घायुः । अन्यच्च अर्थिप्रत्यर्थिनोर्व्यवहारः । अहमर्थिनी । तन्मुञ्चतैनम्]

 शकार---अवेहि गब्भदाशि ! गच्छ, किं तव एदिणा । [ अपेहि गर्भदासि ! गच्छ, किं तवैतेन ? ।]

 अधिकरणकः--आयें ! गम्यताम् । हे राजपुरुषाः ! निष्क्रामयतैनाम् ।

 वृद्धा-हा जाद | हा पुत्तअ ! । [ हा जात ! हा पुत्रक [] ( इति रुदती निष्क्रान्ता)


अश्वताडनी ॥ ३६ ॥ अपापानामिति ॥ ३७ ॥ मयेतिश्रीरेव