पृष्ठम्:मृच्छकटिकम्.pdf/२६२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५४
मृच्छकटिके

सच्चेण सुहं खु लब्भइ सञ्चालावेण होइ पावं ।
सच्चं त्ति दुवेवि अक्खरा मा सच्च् अलिएण गूहेहि ॥ ३५ ॥

[ आर्यचारुदत्त ! अत्र सत्यं वक्तव्यम्; पश्य पश्य
सत्येन सुखं खलु लभ्यते सत्यालापेन भवति पातकम् ।
सत्यमिति द्वै अध्यक्षरे मा सत्यमलीकेन गूहय ॥ ]

 चारुदत्तः--आभरणन्याभरणनीति । न जाने, किंत्वस्मद्दृहादानीतानीति जाने।

 शकारः-----उज्जाणं एवेशिअ पढमं मालेशि । कवडकावडिआए शंपदं णिगूहेशि [ उद्यानं प्रवेश्य प्रथमं मारयसि । कपटकापटिकतया सांप्रत निगूहसि १ ।]

 अधिकरणिकः-- आर्यचारुदत्त ! सत्यमभिधीयताम् ,---

इदानीं सुकुमारेऽस्मिन्निःशङ्कं कर्कशाः कशाः ।
तघ गात्रे पतिष्यन्ति सहास्माकं मनोरथैः ॥ ३६॥

 चारुदत्तः--

अपापानां कुले जाते मयि पापं न विद्यते ।
यदि संभाव्यते पापमपापेन च किं मया १ ॥ ३७ ॥

(स्वगतम्) न च मे वसन्तसेनादिरहितस्य जीवितेन कृत्यम् । ( प्रकाशम् ) भोः ! किं बहुना


॥ ३४ ॥ एवं ओ इदं एवमिदं स्मर्यते ॥ सच्चेणेत्यादि । वैतालीयम् । सत्येन सुखं खलु लभ्यते । सत्यालापे । सत्यमालापयतीति क्विपि सत्यालापः । तत्र न भवति पापकम् । सत्यमिति द्वे [अ] प्यक्षरे इति स्वरूपोक्तिः । न भवति पापस्य निमि- त्तमिति यस्मात्' इति प्राचीनटीका । अलीयेण (?) अलीकं कर्तुं । सत्यापेक्षया बह्वक्षरमपीत्यर्थः । सत्यं पूर्वोक्तस्वरूपत्वायूक्षरमपि कर्मभूतम् । मा निगूहति मा संवृणोति ॥ ३५ ॥ अतिकापटिकतया निगूहसि ॥ इदानीमिति । कशा टिप्प०-1 वसन्ससेनाया इमान्याभरणान्यलंकारआः, पक्षेः, आमरणानि उदरंभरणसाधनानीति न जाने प्रत्यर्थः । | L

..