पृष्ठम्:मृच्छकटिकम्.pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४८
मृच्छकटिके

 चारुदत्तः–विचार्यताम् । भो अधिकृताः ! विचार्यताम् । ( इत्यासनातीर्य भूमापविशति )

 शकारः--(स्वगतम्, सहर्ष नर्तित्वा) ही, अणेण मए कडे पावे अण्णश्श मश्तके निवडिदे । ता जहिं चालुदत्ताके उवविशदि तर्हि हग्गे उवविशामि । ( तथा कृत्वा ) चालुदत्ता 1 पेक्ख पेक्स मे । ता भण भण मए मालिदे त्ति । [ही, अनेन मया कृतं पापमन्यस्य मस्तके निपतितम् । तद्यत्र चारुदत्त उपविशति तत्राहमुपदिशामि । चारदत्त! पश्य पश्य माम् । तद्भण भण मया मारितेति ।]

 चारुदत्तः–भो अधिकृताः (‘दुष्टात्मा-' (९।२७) इत्यादि पूर्वोक्तं पठति, सनिःश्वासं, स्वगतम् )

मैत्रेय भोः ! किमिदमद्य ममोपधातो
हा ब्राह्मण ! द्विजकुले विमले प्रसूता ।
हा रोहसेन ! हि न पश्यसि मे विपत्ति,
मिथ्यैव नन्दसि परव्यसनेन नित्यम् ॥ २९ ॥

प्रेषितश्च मया तद्वार्तान्वेषणाय मैत्रेयो वसन्तसेनासकाशं शकटिकानिमित्तं च तस्य प्रदत्तान्यलंकरणानि प्रत्यर्पयितुम् ; तत्कथं चिरयते ।

(ततः प्रविशति गृहीताभरणो विदूषकः )

 विदूषकः---- पेसिदो म्हि अज्जचारुदत्तेण वसंतसेणासआसं, तहिं अलंकरणाई गेण्हिअ, जधा-'अज्जमित्तेअ ! वसंतसेणाए वच्छो रोहसेणो अत्तणो अलंकारेण अलंकरिअ जणणीसआसं पेसिदो । इमस्स आहरणं दादव्यं, ण उण गेण्हिदव्वं । ता समम्पेहि त्ति । ता जाव वसंतसेणासआसं ज्जेव्व गच्छामि । ( परिक्रम्यावलोक्य च आकाशे ) कधं भावरेभिलो ? । भो भावरेभिल ! किंणिमित्तं तुम उब्विग्गो


र्षिण्या श्लोकाः ॥ २7 ॥ य इति ॥ 2८ ॥ मैत्रेयेति ॥ 2९ ॥