पृष्ठम्:मृच्छकटिकम्.pdf/२५४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४६
मृच्छकटिके

कमन्वेषयन् , अपवारितं प्रवहणं व्रजतीति विचारं कुर्वान्वेषयन्, 'अरे ! त्वयाप्यालोकितम् , मयाप्यालोकितव्यम्' इति भणन्नेव चन्दनमहत्तरकेण, पादेन ताडितोऽस्मि । एतच्छ्रुत्वार्यमिश्राः प्रमाणम् ।]

 अधिकरणिकः---भद्र ! जानीर्े कस्य तत्प्रवहणमिति ? ।

 वीरकः----इमस्स अज्जचारुदत्तस्स । वसंतसेणा आरूढा पुष्फक- रेडकजिण्णुज्जाणं कीलिदुं णीअदि त्ति पवहणवाहएण कहिदं । [ अस्यार्यचारुदत्तस्य । वसन्तसेनारूढा पुष्पकरण्डकजीर्णोधानं क्रीडितुं नीयत इति प्रवहणवाहन कथितम् ।)

 शकारः-पुणो वि शुदं अज्जेहिं ।। [पुनरपि श्रुतमार्यैः ? ।]

 अधिकरणिकः--

एष भो ! निर्मलज्योत्स्नो राहुणा ग्रस्यते शशी ।
जलं कुलावपातेन प्रसन्नं कलुषायते ॥ २४ ॥

वीरक ! पश्चादिह भवतो न्यायं द्रक्ष्यामः । य एषोऽधिकरणद्वार्यश्वस्तिष्ठति, तमेनमारुह्य गत्वा पुष्पकरण्डकोद्यानं दृश्यतामस्ति तत्र काचिद्विपन्ना स्त्री ने वेति ।

 वीरकः-जं अज्जो आणवेदि । ( इति निष्क्रान्तः, प्रविश्य च ) गदो म्हि तहिं । दिट्ठं च मए एत्थिकलेवरं सावएहिं विलुप्पंतं । [ यदार्य आज्ञापयति । गतोऽस्मि तत्र । इष्टं च मया स्त्रीकलेवरं श्वापदेर्विलुप्यमानम् ।]

 श्रेष्ठिकायस्थौ--कधं तुए जाणिदं इत्थिकलेवरं त्ति ? । [कथं त्या ज्ञातं स्त्रीकलेवरमिति १ ।]

 वीरक–सावसेसेहिं केसहत्थपाणिपादेहिं उवलक्खिदं मए । [सावशेषैः केशहस्तपाणिपादैरुपलक्षितं मया ।]


एष इति ॥ २४॥ सावएहिं श्वापदैः ॥ [ सावसेसेहिं ] सावशेषाभ्याम् ॥