पृष्ठम्:मृच्छकटिकम्.pdf/२४८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४०
मृच्छकटिके

नानावाशककङ्कपक्षिरचितं कायस्थसर्पास्पदं
नीतिक्षुण्णतटं च राजकरणं हिंस्त्रैः समुद्रायते ॥ १४ ॥

भवतु । ( प्रविशञ्छिरोभिघातमभिनीय, सवितर्कम् ) अहह, इदमपरम्

सव्यं मे स्पन्दते चक्षुर्विरौति वायसस्तथा ।
पन्थाः सर्पेण रुद्धोऽयं, स्वस्ति चास्मासु दैवतः ॥ १५ ॥

तावत्प्रविशामि । ( इति प्रविशति )

 अधिकरणिकः-अयमसौ चारुदत्तः । य एषः

घोणोन्नतं मुखमपाङ्गविशालनेत्रं
नैतद्धि भोजनमकारणदूषणानाम् ।
नागेषु गोषु तुरगेषु तथा नरेषु
नह्याकृतिः सुसदृशं विजहाति वृत्तम् ॥ १६ ॥

 चारुदत्तः–भोः । अधिकृतेभ्यः स्वस्ति । हंहो नियुक्ताः । अपि कुशलं भवताम् ।।

 अधिकरणिकः----( ससंभ्रमम् ) स्वागतमार्यस्य । भद्र शोधनक ! आर्यस्यासनमुपनय ।

 शोधनकः-( आसनमुपनीय ) एदं आसणं । एत्थ उवविसदु अज्जो । [ इदमासनम् । अथोपविशत्वार्यः ।]

(चारुदत्त उपविशति )


दूत आह्वायको गतागतनियुक्तो वीरश्च गृहपुरुषः । नागाश्च सतारकार्य (?) । नाना बहुप्रकाराः शब्दं कुर्वन्तो ये कङ्कपक्षिणस्तै रचितं व्याप्तम् । अशुभसूचकत्वेन तेषां समवधानमुक्तम् । अब्धिपक्षे तु व्यक्तमेव । ‘पक्ष इति पाथे तेषां पक्षाणां रचितम् । नानाक्रमणिकया निर्मितभेदो यत्रेत्यर्थः । कङ्को मांसदः पक्षिविशेषः ॥ १४ ॥ सव्यमिति ॥ १५ ॥ घोणेति । घोणी उता यत्र, घोणया वा उन्नतमुत्कृष्टम् । अपाङ्गो विशालो यत्र । एतेन