पृष्ठम्:मृच्छकटिकम्.pdf/२४६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३८
मृच्छकटिके

 चारुदत्तः--( विचिन्त्य )

परिज्ञातस्य मे राज्ञा शीलेन च कुलेन च ।
यत्सत्यमिदमाह्वानमवस्थामभिशङ्कते ॥ ८॥

( सवितर्क, स्वगतम् )

ज्ञातो नु किं स1 खलु बन्धनविप्रयुक्तो
मार्गगतः प्रवहणेन मयापनीतः।
चारेक्षणस्य नृपतेः श्रुतिमागतो वा
येनाहमेवमभियुक्त इव प्रयामि ॥ ९॥

अथवा किं विचारितेन ? । अधिकरणमण्डपमेव गच्छामि । भद्र शोधनक ! अधिकरणस्य मार्गमादेशय ।

 शोधनकः-एदु एदु अज्जो । [एवेत्वार्यः ।]

( इति परिक्रामतः )

 चारुदत्तः--( सशङ्कम् ) तत्किमपरम् ।

रूक्षस्वरं वाशति वयसोऽय-
ममात्यभृत्या मुहुराह्वयन्ति ।
सव्यं च नेत्र स्फुरति प्रसह्य
ममानिमित्तानि हि खेदयन्ति ॥ १० ॥

 शोधनकः-एदु एदु अज्जो सैरं असंभंतं । [ एवेत्वार्यः स्वैरमसंभ्रान्तम् ।]


त्तेति कायस्थसंबोधनम् । स्वैरं स्वच्छन्दम् । असंभ्रान्तं संभ्रमशून्यम् ॥ परीति । अवस्थामीदृशीं दशाम् ॥ ८ ॥ ज्ञात इति । मार्गागत आर्यकः ॥९॥ रूक्षेति । ‘शासृ वासृ शब्द’ भ्वादिरात्मनेपदी । रेहादेरात्मनेपदात्वाच्च परस्मैपदम् । ‘वाशृ शब्दे' इति तुदादिस्तालव्यान्तः । आत्मनेपदी ( १ ) ॥ १० ॥ पाठा०—१ ज्ञातो हि किं नु खलु. टिप्प-1 आर्यकः। 2 सव्यं वाममित्यर्थः, 'वामं शरीरं सव्यं स्यात्

इत्यमरः । अत एवानिमित्तान्यपशकुनाः खेदयन्ति ।