पृष्ठम्:मृच्छकटिकम्.pdf/२४४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३६
मृच्छकटिके

आगच्छ, अधिकरणिक आह्वयति; तम्मोहपरवशमिवात्मानमवगवच्छामि । हृदयं मे प्रकम्पते । आर्य ! आदिश मह्यमधिकरणमण्डपस्य मार्गम् ।]

 शोधनकः–एदु एदु अज्जा । [एत्वात्वार्या ।]

(उभौ परिक्रामतः )

 शोधनकः---एदं अधिअरणमंडवं । एत्थ पविसदु अज्जा । [एषोऽधिकरणमण्डपः । अत्र प्रविशत्वार्या ।]

( इत्युभौ प्रविशतः )

 वृद्धा---( उपसृत्य ) सुहं तुम्हाणं भोदु भावमिस्साणं । [ सुखं युष्माकं भवतु भादमिश्राणाम् ।

 अधिकरणिकः -भद्रे ! स्वागतम् ; आस्यताम् ।

 वृद्धा--तधा। [ तथा ।] (इत्युपविष्टा)

 शेकारः-( साक्षेपम् ) आगदाशि वुड्ढकुट्टणि ! आगदाशि । [ आगतासि वृद्धकुट्टनि ! आगतासि ।] अधिकरणिकः-अये, त्वं किल वसन्तसेनाया माता ।

 वृद्धा-अध इं । [अथ किम् ।]

 अधिकरणिकः—अथेदानीं वसन्तसेना क्व गता ।

 वृद्धा--मित्तधरअं । [ मित्रगृहम् ।

 अधिकरणिकः--किंनामधेयं तस्या मित्रम् ?।।

 वृद्धा---(स्वगतम् ) हद्धी हृद्धी; अदिलज्जणीअं खु एदं । (प्रकाशम् ) जणस्स पुच्छणीओ अअं अत्थो, ण उण अधिअरणिअस्स। [ हा धिक् वा धिक्, अतिलञ्जनीयं खल्विदम् । जनस्य पृच्छनीयोऽयमर्थः, न पुनरधिकरणिकस्य ।]


हम् 1 प्रस्तावाच्चारुदत्तस्य गृहम् ॥ अर्थो न पुनरधिकरणिकाममिति वेश्यापतिरूपतया ज्ञानेन शिष्टानां लज्जाकरत्वादिति भावः ॥ विनयदत्तस्य नप्ता ॥ धनद-