पृष्ठम्:मृच्छकटिकम्.pdf/२४२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३४
मृच्छकटिके

पाशबलक्कालेण वशंतशेणि मालिदा, ण मए । [अहो अधिकरणभोजकाः ! किमिति न जानामि ? । तां तादृशीं नगरमण्डनं काञ्चनशतभूषणां केनापि कुपुत्रेणार्थकल्यवर्तस्य कारणाच्छ्न्यं पुष्पकरण्डकजीर्णोद्यानं अवैश्य बाहुपाशबलात्कारेण वसन्तसेना मारिता, न मया । ] ( इत्यर्धोक्ते मुखमावृणोति )

 अधिकरणिकः----अहो नगररक्षिणां प्रमादः । भोः श्रेष्ठिकायस्थौ ! न मयेति व्यवहारपदं प्रथममभिलिख्यताम् । कायस्थः-जं अज्जो आणवेदि । ( तथा कृत्वा ) अब ! लिहिदं । [ यदार्य आज्ञापयति । आर्य ! लिखितम् ।]

 शकारः-( स्वगतम् ) हीमादिके, उत्तलाअंतेण विअ पाअशपिंडालकेण अज्ज मए अत्ता एव्व णिण्णाशिदो। भोदु, एव्वं दाव । (प्रकाशम् ) अहो अधिअलणभोइआ णं भणामि, मए ज्जेव दिश्टा। किं कोलाहलं कलेध ?। [ आश्चर्यम्, त्वरां कुर्वाणेनेव पायसपिण्डारकेणाद्य मयात्मैव निर्नाशितः । भवतु । एवं तावत् , अहो अधिकरणभोजकाः ! ननु भणामि, मयैव दृष्टा । किं कोलाहलं कुरुत ? ।] ( इति पादेन लिखितं प्रोञ्छति )

 अधिकरणिकः--कथं त्वया ज्ञातं यथा खल्वर्थनिमित्तं बाहुपाशेन व्यापादिता ?।।

 शकारः---हंहो, णूणं 1पंडिशूणाए मोघट्ठाणाए गीवालिआए णिशुवण्णकेहिं आहलणट्टाणेहिं तक्केमि । [ हंहो, नूनं परिशून्यया मोघस्थानया ग्रीवालिकया निःसुवर्णकैराभरणस्थानैस्तर्कथामि ।] तत्रेति करणाधिकरणत्वेन विवक्षितत्वात्तदित्येवार्थः (१) । तत्र दैवयोगेन पश्यामि न वेत्यर्थः ॥ न मयेति तस्य बोध्यत्वेन व्यवहारपदम् ॥ परिशून्यया

पाठा०- शुण्णशूणाए.