पृष्ठम्:मृच्छकटिकम्.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३१
नवमोऽङ्कः

 अधिकरणिकः--कथं प्रथममेव राष्ट्रियश्यालः कार्यार्थी ? । यथा सूर्यादये उपरागो महापुरुषनिपातमेव कथयति । शोधनक ! व्याकुलेनाद्य व्यवहारेण भवितव्यम् । भद्र ! निष्क्रम्योच्यताम् --- गच्छाद्य, ने दृश्यते तव व्यवहारः' इति ।

 शोधनकः---जं अज्जो आणचेदि ति । ( निष्क्रम्य, शकारमुपगम्य ) अज्ज ! अधिअणिआ भणंति-अज्ज ! गच्छ। ण दीसदि तव ववहारो त्ति' । [यदार्य आज्ञापयतीति । आर्य ! अधिकरणिका भणन्ति- अद्य गच्छ । न दृश्यते तव व्यवहारः' ।]

 शकारः--( सक्रोधम् ) आः, किं ण दीशदि मम ववहाले ! । जइ ण दीशदि, तदो आवृत्तं लाआणं पालअं बहिणीदिं विष्णविअ बहिणिं अत्तिकं च विण्णविअ एदं अधिअलणिअँ दूले फेलिअ एत्थ अण्णं अधिअलणिअं ठावइश्शं । [ आः, किं न दृश्यते मम व्यवहारः ।। यदि न दृश्यते, तदायुत्तं राजानं पालकं भगिनीपतिं विज्ञाप्य भगिनीं मातरं च विज्ञाप्यैतमधिकरणकं दूरीकृत्यात्रान्यमधिकरणं स्थापयिष्यामि ।

( इति गन्तुमिच्छति )


 शोधनकः--अज्ज रट्टिअशालअ ! मुहूत्तअं चिट्ठ । दाव अधिअरणिआणं णिवेदेमि । ( अधिकरणिकमुपगम्य ) एसो रट्टिअशालो कुविदो भणादि । [ आर्य राष्ट्रियश्याल ! मुहूर्त तिष्ठ । सावधिकरणिकानां निवेद यामि । एष राष्ट्रियश्यालः कुपितो भणति ।] ( इति तदुक्तं भणति )

 अधिकरणिकः--सर्वमस्य मूर्खस्य संभाव्यते । भद्र ! उच्य- ताम्-‘आगच्छ, दृश्यते तव व्यवहारः' ।।

 शोधनकः---( शकारमुपगम्य ) अज्ज ! अधिअरणिआ भणंति--


आः क्रोधे । लाआणं राजानम् । आवृत्तं भगिनीपतिम् । पुनर्भगिनीपतिमिति