पृष्ठम्:मृच्छकटिकम्.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३०
मृच्छकटिके

 अधिकरणिका-भद्र शोधनक ! अधिकरणमण्डपस्य मार्गमा- देशय ।

 शोधनकः–एदु एदु अधिअरणभोइओ ! एदु । [एत्वेत्वधिकरणभोजक ! एतु ।]

( इति परिक्रमिन्ति)

 शोधनक-एदं अधिअरणमंडवं । ता पविसंतु अधिअरणभोइआ । [ अयमधिकरणमण्डपः, तत्प्रविशन्त्वधिकरणभोजकाः ।]

( सर्वे च प्रविशन्ति )

 अधिकरणिकः--भद्र शोधनक ! बहिर्निष्क्रम्य ज्ञायताम्-‘कः कः कार्यार्थी' इति ।

 शोधनकः----अज्जो आणवेदि । ( इति निष्क्रम्य ) अज्जा ! अधिअरणिआ भणंति-को को इध कज्जत्थी' त्ति । [यदार्य आज्ञापयति । आर्याः ! अधिकरणिका भणन्तिकः क इह कार्यार्थी' इति ।]

 शकारः-( सहर्षम् ) उवन्थिए अघिअलणिए । ( साटोपं परिक्रम्य ) हद्गे वलपुलिशे मणुश्शे वाशुदेवै लश्टिअशाले लाअशाले कज्जत्थी । [उपस्थित अधिकरणिकाः । अहं वरपुरुषो मनुष्यो वासुदेव राष्ट्रिय श्यालो राजश्यालः कार्यार्थी ।]

 शोधनकः---( ससंभ्रमम् ) हीमादिके, पढ़मं ज्जेव रट्टिअसालो कज्जत्थी । भोदु, अज्ज ! मुहुत्तं चिट्ठ । दाव अघिअरणिणं णिवेदेमि । ( उपगम्य ) अज्जा ! एसो खु रट्टिअसालो कज्जत्थी ववहारं उवत्थिदो । [ हन्त, प्रथममेव राष्ट्रियश्यालः कार्यार्थी । भवतु, आर्य ! मुहुर्त तिष्ठ । तावदधिकरणिकानां निवेदयामि । आर्याः! एष खलु राष्ट्रियश्यालः कार्यार्थी व्यवहारमुपस्थितः ।