पृष्ठम्:मृच्छकटिकम्.pdf/२३२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२४
मृच्छकटिके

दिण्ण । भोदु, पेखिश्शं । ( नाट्येनोद्घाट्य दृष्ट्वा, प्रत्यभिज्ञाय च ) शा ज्जेव बुद्धोवाशिआ । [ हा हा, शुद्धालंकारभूषितः स्त्रीहस्तो निष्क्रामति । कथं द्वितीयोऽपि हस्तः १ । प्रत्यभिज्ञानामीवैतं हस्तम् । अथवा, किं विचारेण । सस्यं स एव हस्तो येन मेऽभयं दत्तम् । भवतु, पश्यामि । सैव बुद्धोपासिका।]

( वसन्तसेना पानीयमाकाङ्क्षति )

 भिक्षु?--कधं उदयं मग्गेदि । दूले च दिग्धिआ । किं दाणिं एत्थ कलइश्शं ? । भोदु, एदं चीवलं शे उवलि गालइश्शं । [कथं इकं याचते १ । दूरे च दीर्घिका, किमिदानीमत्र करिष्यामि ? । भवतु, एतच्चीवरमस्या परि गालयिष्यामि । ] ( तथा करोति )

( वसन्तसेना संज्ञां लब्ध्वोत्तिष्ठति, भिक्षुः पटान्तेन वीजयति )

 वसन्तसेना-अज्ज ! को तुमं। [ आर्य ! कस्त्वम् ? । ]

 भिक्षुः----किं मं ण शुमलेदि बुद्धोवाशिआ दशशुवण्णणिक्कीदं ? | [ किं मां न स्मरति बुद्धोपासिका दशसुवर्णनिष्क्रीतम् ? ।]

 वसन्तसेना-सुमरामि, ण उण जधा अज्जो भणादि । वरं अहं उवरदा ज्जेव । [ स्मरामि, न पुनर्यथाऽऽर्यो भणति । वरमहमुपरतैव ।]

 भिक्षुः---बुद्धोवाशिए ! किं ण्णेदं १ । [बुद्धोपासिके ! किं न्वि- दम् ।।]

 वसन्तसेना---( सनिर्वेदम् ।) जं सरिसं वेसभावस्स । [यत्सद्दर्श वेशभावस्य ।]


शुद्ध केवलं कटकादि न स्वभाव एवलंकरणं यत्र सः । दुदिए द्वितीयः । शे


---



--- टिप्प-1 केवलं त्वां स्मरामि, नतु दशसुवर्णनिष्क्रीतत्वेनेति महानुभावतेयं

महतामिति भावः ।