पृष्ठम्:मृच्छकटिकम्.pdf/२३१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२३
अष्टमोऽङ्कः

मम एदेण शग्गेण । जाव ताए वशंतशेणिआए बुद्धोवाशिआए पच्चुवआलं ण कलेमि, जाए दशाण शुवण्णकाणं किदे जूदिअलेहिं णिक्कीदे, तदो पहुदि ताए कीदं विअ अत्ताणअं अवगच्छामि । ( दृष्ट्वा ) कि णु खु पण्णोदले शमुश्शशदि ह । अधवा

वादादवेण तत्ता चीवलतोएण तिम्मिदा पत्ता।
एदे विथिण्णपत्त्ता मण्णे पत्ता विअ फुलंति ॥ ४६॥

 [ प्रक्षालितमेतन्मया चीवरखण्डम् । किं नु खलु शाखायां शुष्कं करिष्यामि ? इह वानरा विलुम्पन्ति । किं नु खलु भूम्याम् ? । धूलीदोषो भवति । तत्कुत्र प्रसार्य शुष्कं करिष्यामि ? । भवतु, इह दातालीपुञ्जिते शुष्कपत्रसंचये प्रसारयिष्यामि । नमो बुद्धाय । भवतु, धर्माक्षराण्युदाहरामि । अथवालं ममैतेन स्वर्गेण ! यावत्तस्या वसन्तसेनाया बुद्धोपासिकायाः प्रत्युपकार न करोमि, यया दशानां सुवर्णकानां कृतेन द्यूतकाराभ्यां निष्क्रीतः, ततः प्रभृति तया क्रीतमिवात्मानमवगच्छामि । किं नु खलु पर्णोदरे समुच्छसिति ? । अथवा ।

वातातपेन तप्तानि चीवरतोयेन स्तिमितानि पत्राणि ।
एतानि विस्तीर्णपत्राणि मन्ये पक्षिण इव स्फुरन्ति ॥

( वसन्तसेना संज्ञां लब्ध्वा, हस्तं दर्शयति )

 भिक्षु-हा हा, शुद्धालंकालभूशिदे इत्थिआहत्थे णिक्कमदि । कधं दुदिए वि हत्थे ? । (बहुविधं निर्वर्ण्य) पञ्चभिआणामि विअ एदं हत्थे । अधवा, किं विचालेण ? । शच्चं शे ज्जेव हत्थे जेण मे अभअं


राणि सग्गेण स्वर्गेण । यावत्तस्या वसन्तसेनाया. द्यूतकराभ्यां सकाशाद्दशसुवर्णानां कृते निष्क्रीतः । तदो पहुदि निष्क्रयप्रभृति । तयो क्रीतमात्मानमवगच्छामि । वादादवेणेति । गाथा । वातातपेन तप्तानि चीवरतोयेन तिम्मितत्वमार्द्रत्वं प्राप्तानि । तिम्मिता इति भावप्रधानो निर्देशः । एतानि विस्तीर्णं प्राप्तं प्रसारितं यत्र (१) तानि मन्ये पत्राण्येव विजृम्भन्ते ॥ ४६ ॥ शुद्धेति