पृष्ठम्:मृच्छकटिकम्.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२२
मृच्छकटिके

मारयिष्यामि । कथं सुमृता ? भवतु, एतेन प्रावारकेण प्रछादयाम्येनाम् । अथवा नामाङ्कित एषः, तत्कोऽप्यार्यपुरुषः प्रत्यभिज्ञास्यति । भवतु, एतेन वातालीपुञ्जितेन शुष्कपर्णपुटेन प्रच्छादयामि । भवतु, एवं तावत् । सांप्रतमधिकरणं गत्वा व्यवहारं लेखयामि, यथा-अर्थस्य कारणात्सार्थवाहक चारुदत्तकेन मदीयं पुष्पकरण्डकं जीर्णोद्यानं प्रवेश्य वसन्तसेना व्यापादितेति ।

चारुदत्तविनाशाय करोमि कपटं नवम्।।
नगर्यां विशुद्धायां पशुधातमिव दारुणम् ॥

भवतु, गच्छामि । अविद मादिके । येन येन गच्छामि मार्गेण, तेनैवैष दुष्टश्रमणको गृहीतकषायोदकं चीवरं गृहीस्वागछति । एष मया नासां छित्त्वा वाहितः कृतवैरः कदापि मां प्रेक्ष्यैतेन मारितेति प्रकाशयिष्यति । तत्कथं गच्छामि ? । भवतु एतमर्धपतितं प्राकारखण्डमुल्लङ्घ्य गच्छामि ।

एषोऽस्मि त्वरितत्वरितो लङ्कानगर्यो गगने गछन् ।
भूम्यां पाताले हनूमच्छिखर इव महेन्द्रः ॥]

( इति निष्क्रान्तः)

(प्रवि1श्यापटीक्षेपेण )

 संवाहको भिक्षुः----पक्खालिदे एशे मए चीवलखंडे । किं णु हु शाहाए शुक्खावइश्शं । इध वाणला विलुप्पंति । किं णु हु भूमीए धूलीदोशे होदि, तो कहिं पशालिअ शुक्खावइश्शं । ( दृष्ट्वा ) भोदु, इध वादालीपुंजिदे शुक्खवत्तसंचए पशालइश्शं । ( तथा कृत्वा ) णमो बुद्धश्श । ( इत्युपविशति ) भोदु, धम्मक्खलाइं उदाहलामि । (“पंचज्जण जेण मालिदा' (८।२ ) इत्यादि पूर्वोक्तं पठति ) अधवा अलं


गगने गच्छन् । भूमौ पाताळे हनुमच्छिखरादिव महेन्द्रः । महेन्द्रशिखरादिव हनुमानिति वक्तव्ये शकारोकत्वाद्विपरीतम् । 'अअट्' इति पाठे अष्टकशिखरादित्यर्थः । व्याहृतोपममिदं तावत् ॥ ४५ ॥ तथेति प्रसार्य । भवतु, धर्माक्ष- टिप्प:---! नेपथ्यपटमुद्घाट्य प्रविष्ट इत्यर्थः । यस्तावदेवमेवागतः पात्रविशेषः

सोपटाक्षेयपेणेति नाटके संकेतः । एवमेवाग्रेऽपि बोध्यम् ।