पृष्ठम्:मृच्छकटिकम्.pdf/२२२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१४
मृच्छकटिके

चारुदत्तस्स । [हा मातः ! कुत्रासि १ । हा आर्यचारुदत्त ! एष जनोऽसंपूर्णमनोरथ एव विपद्यते, तदूर्ध्वमाक्रन्दयिष्यामि । अथवा वसन्तसेनोर्ध्वमाक्रन्दतीति लज्जनीयं खल्वेतत् । नम आर्यचारुदत्ताय ।]

 शकारः---अज्ज वि गब्भदाशी तश्श ज्जेव पावश्श णामं गेण्हदि । ( इति कण्ठे पीडयन्) शुमल गब्भदाशि । शुमल । { अद्यापि गर्भदासी तस्यैव पापस्य नाम गृह्णाति १ । स्मर गर्भदासि ! स्मर ।

 वसन्तसेना-णमो अज्जचारुदत्तस्स । [ नम आर्यचारूदत्ताय ।]

 शकारः—मल गम्भदाशि | मल । [ भ्रियतां गर्भदासि ! म्रियताम् । ] ( नाट्येन कण्ठे निपीडयन्मारयति )

( वसन्तसेना मूर्च्छिता निश्चेष्टा पतति )

 शकारः—( सहर्षम् )

एदं दोशकलंडिअं अविणअश्शावासभूदं खलं
लत्तं तश्शे किलागदश्श लमणे कालागदं आअदं ।
किं एशे शमुदाहलामि णिअअं बाहूण शूलत्तणं
णीशाशे वि मलेइ अंब शुमला शीदा जधा भालदे॥ ३६॥

इच्छंतं मम णेच्छति त्ति गणिआ लोशेण मे मालिदा
शुण्णे पुण्फकलंडके त्ति शहशा पाशेण उत्ताशिदा ।
शेवावंचिदभादुके मम पिदा मादेव शा दोप्पदी
जे शे पेक्खदि णेदिशं ववशिदं पुत्ताह शूलत्तणं ॥ ३७ ॥


ऊर्ध्वमुचैस्तराम् ॥ शुभल स्मर ॥ मल म्रियस्व। एदं दोशकलंडिअमित्यादि। शार्दूलेन श्लोकद्वयम् । एतां दोषकरण्डिकामविनयस्यावासभूतां खलां दुर्जनस्वभावाम् । रक्षां तस्य चारुदत्तस्य किलगतस्य रमणे संभोगनिमित्तं कालागतामागताम् । काल कृष्णाम् । किमेष समुदाहरामि निजकं बाह्वोः शूरत्वम् । निःश्वासापि म्रियते अम्बा सुमृता सीता यथा भारते ॥ ३६॥ इच्छन्तं मां नेच्छतीति गणिका रोषेण मया मारिता अन्य पुष्पकरडके इति सहसा पाशेनोन्नासिता । मया