पृष्ठम्:मृच्छकटिकम्.pdf/२२१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१३
अष्टमोऽङ्कः

 शकार--पलित्ताअदु दाशीए पुत्ते दलिचालुदत्तके तुमं । [परित्रायतां दास्याः पुत्रो दरिद्रचारुदत्तकत्वाम् । ] ।

 वसन्तसेना---परित्ताअदि जदि मं पेक्खदि । [ परित्रायते यदि मां प्रेक्षते ।

 शकारः--

{{block center|{{bold|<poem>किं शे शके वालिपुत्ते महिंदे लंभापुत्ते कालणेमी शुबंधू ।। लुद्दे लाआ दोणपुत्ते जड़ाऊ चाणक्के वा धुंधुमाले तिशंकू ॥ ३४ ॥

अधवा, एदे वि दे ण लक्खंति ।

 चाणक्केण जधी शीदा मानिदा भालदे जुए। एव्वं दे मोदइश्शामि जड़ाऊ विअ दोव्वदिं ॥ ३५ ॥

( इति ताडयितुमुद्यतः)

{{block center|{{bold|<poem>[ किं स शक्रो वालिपुत्रो महेन्द्रो रम्भापुत्रः कालनेमिः सुबन्धुः । रुद्रो राजा द्रोणपुत्रो जटायुश्चाणक्यो वा धुन्धुमारस्त्रिशङ्कः ॥ ]

अथवा, एतेऽपि त्वां न रक्षन्ति ।

{{block center|{{bold|<poem>चाणक्येन यथा सीता मारिता भारते युगे ।। एवं त्वां मोटयिष्यामि जटायुरिव द्रौपदीम् ॥]

 वसन्तसेना—हा अत्ते ! कहिं सि ? । हा अज्जचारुदत्त 1 एसो जणो असंपुण्णमणोरधो ज्जेव्व विवज्जदि, ता उद्धं अक्कंदइस्सं । अधवा वसंतसेणा उद्धं अक्कंददि त्ति लज्जणीअं खु एदं । णमो अज्ज-


देंती साक्षेपं वदन्ती इति देशीति चिरंतनटीका । किं शे शङ्के इति । शक्वरी- विशेषच्छन्दसा श्लोकः । किम सौ [ शक्रो ] बालिपुत्रो महेन्दो रम्भापुत्रः कालनेमिः सुबन्धुः । रुद्रो राजा द्रोणपुत्रो जटायुश्चाणक्यो वा धुन्धुमारस्त्रिशङ्कः ।। कालनै- मिरसुरः । सुबन्धुः कवि बिशेषः । धुन्धुर सुरभेदः ॥ ३४ ॥ अथवा, एतेऽपि त्वां न रक्षन्ति । चाणक्येनेत्यादि । अर्थस्तु----चाणक्येन यथा सीता मारिता भारते युगे भारतावच्छिन्ने समये । एवं त्वां मारयिष्यामि जटायुरिव द्रौपदीम् ॥ ३५ ॥