पृष्ठम्:मृच्छकटिकम्.pdf/२२०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१२
मृच्छकटिके

खलचरित निकृष्ट ! जातदोषः
कथमिह मां परिलोभसे धनेन ।
सुचरितचरितं विशुद्धदेहं।
न हि कमलं मधुपाः परित्यजन्ति ॥ ३२ ॥

यक्षेन सेवितव्यः पुरुषः कुलशीलवान् दरिद्रोऽपि ।
शोभा हि पणस्त्रीणां सदृशजनसमाश्रयः कामः ॥ ३३ ॥

अवि अ, सहआरपादवं सेविअ ण पलासपादवं अंगीकरिस्सं । [ कोऽत्र संदेहः ? अपि च, सहकारपादपं सेवित्वा न पलाशपादप- मङ्गीकरिष्यामि ।।

 शकार—दाशीए धीए ! दलिद्दचालुदत्तके शहआलपादवे कडे, इग्गे उण पलाशे भणिदे, किंशुके वि को कड़े । एव्वं तुमं मे गालिं देंती अञ्ज वि तं ज्जेव चालुदत्तकं शुमलेशि ।। [ दास्याःपुत्रि ! दरिद्रचार- दत्तकः सहकारपादपः कृतः, अहं पुनः पलाशो भणितः, ? किंशुकोऽपि न कृतः । एवं त्वं मह्यं गालीं ददत्यद्यापि तमेव चारुदत्तकं स्मरसि? ।]

 वसन्तसेना--हिअअगदो ज्जेव्व किंत्ति न सुमरीअदि ? । { हृदयगत एव किमिति न स्मर्यते ? ।]

 शकारः–अज्ज वि दे हिअअगदं तुमं च शमं ज्जेव मोडेमि । ता दलिद्दशत्थवाहअमणुश्शकामुकिणि ! च्यिष्ट च्यिश्ट । [अद्यापि ते हृदयगतं त्वां च सममेव मोटयामि । तद्दरिद्रसार्थवाहकमनुष्यकामुकिनि ! तिष्ठ तिष्ठ।]

 वसन्तसेना-भण भण, पुणो वि भण सलाहणिआइं एदाइं अक्खराइं । [भण भण, पुनरपि भण श्लाघनीयान्येतान्यक्षराणि ।]


किं सेवकाः कष्टमया मनुष्याः ॥ ३१॥'खलचरित' ‘यनेन' [इति] प्रतीकपाठो दृश्यते । तत्र ‘इत्यादि' इत्यध्याहार्यः । इत्यादि लोकद्वयं पठतीत्यर्थः । खलचरितेति निकृष्टेति च संबोधनद्वयम् ॥ ३२ ॥ ३३ ॥ पलाशपदेन राक्षसोऽप्यभिधीयते । गालिं