पृष्ठम्:मृच्छकटिकम्.pdf/२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

१४

मृच्छकटिके

चारुदत्तः—वयस्य!

दारिद्र्यान्मरणाद्वा मरणं मम रोचते न दारिद्र्यम्।
अल्पक्लेशं मरणं दारिद्र्यमनन्तकं दुःखम्॥ 11

विदूपकः—भो वअस्स! अलं संतप्पिदेण। पणइजणसंकामिदविहवस्स सुरजणपीदसेसस्स पडिवच्चंदस्स विअ परिक्खओ वि दे अहिअदरं रमणीओ। [भो वयस्य! अलं संतप्तेन। प्रणयिजनसंक्रामितविभवस्य सुरजनपीतशेषस्य प्रतिपच्चन्द्रस्येव परिक्षयोऽपितेऽधिकतरं रमणीयः।]

चारुदत्तः—वयस्य! न ममार्थान्प्रति दैन्यम्। पश्य,—

एतत्तु मां दहति यद्गृहमस्मदीयं
क्षीणार्थमित्यतिथयः परिवर्जयन्ति।
संशुष्कसान्द्रमदलेखमिव भ्रमन्तः
कालात्यये मधुकराः करिणः कपोलम्॥ 12

विदूषकः—भो वअस्स! एदे क्खु दासीए पुत्ता अत्थकल्लवत्ता वरडाभीदा विअ गोवालदारआ अरण्ये जहिं जहिं ण खज्जंति तहिं तहिं गच्छंति। [भो वयस्य! एते खलु दास्याःपुत्रा अर्थकल्यवर्ता वरटाभीता इव गोपालदारका अरण्ये यत्र यत्र न खाद्यन्ते तत्र तत्र गच्छन्ति।]

चारुदत्तः—वयस्य!


कतरत् । रोचते प्रीतम् ॥ दारिद्र्यादिति । अल्पसमयदुःखदत्वान्मरणमल्प- क्लेशम् । बहुसमयव्यापित्वादाकाङ्क्षितापगमाद्दारिद्र्यामनन्तकदुःखम् ॥ ११ ॥ संतप्पिदेण संतप्तेन । प्रणयिजनसंक्रामितविभवस्य सुरजनपीतशेषस्य प्रतिपचन्द्रस्येव परिक्षयोऽपि तेऽधिकतरं रमणीयः । यद्यसद्व्ययेनार्थाः स्वदोषेण नाश्यन्ते तदा संतापः क्रियते, तव तु न तथेति भावः । प्रणयी जनः स्निग्धबान्धवोऽर्थी च ॥ एतदिति । क्षीणार्थमिति कृत्वाऽस्मद्गृहमतिथयः संत्यजन्ति । एतन्मां दहति । कालात्यये मदसमयापगमे धनलाभसमयापगमे च ॥ १२ ॥ एदे खु एते खलु । दासीपुत्रा अर्थरूपप्रातराशाः । वरटा 'वीरणी' इति ख्याता । तत- स्रस्ताः। अरण्ये गोपालपुत्रका इव यत्र यत्र न खाद्यान्त उपभुज्यन्ते तत्र तत्र