पृष्ठम्:मृच्छकटिकम्.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०९
अष्टमोऽङ्कः

गर्भदासः । अहं राष्ट्रियश्यालः कस्माद्बिभेमि वरपुरुषमनुष्यः १ । अरे गर्भदास चेट ! गच्छ त्वम् । अपवारके प्रविश्य विश्रान्त एकान्ते तिष्ठ ।]

 चेटः--जं भट्टके आणवेदि । ( वसन्तसेनामुपसृत्य ) अज्जए ! एत्तिके मे विहवे । [ यद्भट्टक आज्ञापयति । आर्ये! एतावान्मे विभवः । ( इति निष्क्रान्तः) ।

 शकारः—(परिकरं बध्न्न) च्यिश्ट वशंतशेणिए ! च्यिश्ट; माल- इश्शं । [ तिष्ठ वसन्तसेने ! तिष्ठ; मारयिष्यामि ।]

 विटः–आः, ममाग्रतो व्यापादयिष्यसि ? । ( इति गले गृह्णाति )

 शकारः---(भूमौ पतति ) भावे ! भश्टकं मालेदि । ( इति मोहं नाट- यति, चेतनां लब्ध्वा )

शब्वकालं मए पुश्टे मंशेण अ घिएण अ ।
अज्ज कज्जे शमुरप्पण्णे जादे में वेलिए कधं ॥ २८ ॥

( विचिन्त्य ) भोदु, लद्धे मए उवाए । दिण्णा वुड्ढुखोडेण शिलश्चाल- णशण्णा । ता एदं पेशिअ वशंतशेणिअं मालइश्शं। एव्वं दाव । ( प्रकाशम् ) भावे ! जं तुमं भए भणिदे, तं कधं हग्गे एव्वं वडडकेहिं मल्लकम्पमाणेहिं कुलेहिं जादे अकज्जं कलेमि ? एव्वं एदं अंगीकलावेदुं मए भणिदं । [ भावो भट्टकं मारयति ।


क( स्मात् )स्य बिमेमि। अपि तु न कस्यापीयर्थः ॥ ओवलिके अपवारके गृह विशेष इत्यर्थः ॥ परिकरे ‘काछ' इति प्रसिद्धम् ॥ सर्षकालमित्यादि । अर्थस्तु--- सर्वकालं मया पुष्टो मांसेन च घृतेन च । अद्य कार्ये समुत्पन्ने जातो मे वैरिकः कथम् ॥ वैरिको वैरी। स्वार्थे कः ॥ ३८ ॥ लब्धो मयोपायः । दत्ता वृद्धखोडेन शण्णा उपदेशः । एदं विटम् । भाव} यत्त्वं मया भणितः सर्वः समम् (?)। कथमहं एवं बृहतो मल्लकप्रमाणात् । समुद्रप्रमाणादिति वक्तव्ये मो मौर्ख्यान्मल्ल- कप्रमाणतया कुलमुपमिनोति। मल्लिका पत्रपुटिका तया कुलस्य महत्त्वं मौर्ख्यादुपमिनोति' इति प्राचीनटीका । जातोऽकार्य करोमि । एवमेतदङ्गीकारयितुं मया भणि- मृ० १४