पृष्ठम्:मृच्छकटिकम्.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०८
मृच्छकटिके

 शकारः----अले ! ण मालिशशि ? । [अरे ! न मारयिष्यसि ? 1]

( इति बहुविधं ताडयति )

 चेटः–पिट्ठयदु भट्टके, मालेदु भट्टके, अकज्जं ण कलइश्शं ।

जेण म्हि गब्भदाशे विणिम्मिदे भाअधेअदोशेहिं ।
अहिअं च ण कीणिश्शं तेण अकज्जं पलिहलामि ॥ २५ ॥

तादयतु भट्टकः, मारयतु भट्टकः, अकार्य न करिष्यामि ।

येनास्मि गर्भदासो विनिर्मितो भागधेयदोषैः ।।
अधिकं च न क्रीणिष्यामि तेनाकार्यं परिहरामि ॥ ]

 वसन्तसेना-भाव ! शरणागद म्हि । [ भाव ! शरणागतास्मि ।]

 विदः----काणेलीमातः ! मर्षय मर्षय । साधु स्थावरक ! साधु ।

अप्येष नाम परिभूतदशो दरिद्रः ।
प्रेष्यः परत्र फलमिच्छति नास्य भर्ता ।
तस्मादमी कथमिवाद्य न यान्ति नाशं
ये वर्धयन्त्यसदृशं सदृशं त्यजन्ति ॥ २६ ॥

अपि च,-

रन्ध्रानुसारी विषमः कृतान्तो यदस्य दास्यं तव चेश्वरत्वम्।।
श्रियं त्वदीयां यदयं न भुङ्के यदेतदाज्ञां न भवान्करोति ॥ २७ ॥

 शकारः-( स्वगतम्) अधम्मभिलुए वुडढुखोडे । पललोअभिलु 'एशे गम्भदाशे । हग्गे लट्ठिअशाले कश्श भाआमि वलपुलिशमणुश्शे । ( प्रकाशम् ) अले गम्भदाशे चेडे ! गच्छ तुमं । ओवलके पविशिअ वीशंते एअंते च्यिश्ट । [ अधर्मभीरुको वृद्धशृगालः । परलोकभीररेष


पिट्टयतु ताडयतु मारयतु वा । जेण म्हीत्यादि । गाथा । येनास्मि गर्भदासो विनिर्मितो भागधेयदोषेण । अधिकं च न क्रीणि (के) ष्यामि तेनाइमकार्य परिह- रामि ॥ २५ ॥ अपीति ॥ २६ ॥ रन्प्ध्रेति ॥ २७ ॥ कस्स भाआमि