पृष्ठम्:मृच्छकटिकम्.pdf/२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२
मृच्छकटिके

पेक्खामि। (परिक्रम्यावलोक्य च) एसो अज्जचारुदत्तो सिद्धीकिददेयकज्जो गिहदेवदाणं बलिं हरेतो इदो ज्जेव्व आअच्छदि। [अथवा मयापि मैत्रेयेण परस्यामन्त्रणकानि समीहितव्यानि। हा अवस्थे! तुलयसि। यो नामाहं तत्रभवतश्चारुदत्तस्य ऋद्ध्याऽहोरात्रं प्रयत्नसिद्धैरुद्गारसुरभिगन्धिभिर्मोदकैरेवाशितोऽभ्यन्तरचतुःशालकद्वार उपविष्टो मल्लकशतपरिवृतश्चित्रकर इवाङ्गुलीभिः स्पृष्ट्वा स्पृष्ट्वापनयामि। नगरचत्वरवृषभ इव रोमन्थायमानस्तिष्ठामि, स इदानीमहं तस्य दरिद्रतया यत्र तत्र चरित्वा गृहपारावत इवावासनिमित्तमत्रागच्छामि। एष चार्यचारुदत्तस्य प्रियवयस्येन जूर्णवृद्धेन जातीकुसुमवासितः प्रावारकोऽनुप्रेषितः सिद्धीकृतदेवकार्यस्यार्यचारुदत्तस्योपनेतव्य इति। तद्यावदार्यचारुदत्तं पश्यामि। एष आर्यचारुदत्तः सिद्धीकृतदेवकार्यो गृहदेवतानां बलिं हरन्नित एवागच्छति।]

(ततः प्रविशति यथानिर्दिष्टश्चारुदत्तो रदनिका च)

चारुदत्तः(ऊर्ध्वमवलोक्य सनिर्वेदं निःश्वस्य च)

यासां बलिः सपदि मद्गृहदेहलीनां
हंसैश्च सारसगणैश्च विलुप्तपूर्वः।
तास्वेव सम्प्रति विरूढतृणाङ्कुरासु
बीजाञ्जलिः पतति कीटमुखावलीढः॥९॥

(इति मन्दं मन्दं परिक्रम्योपविशति)


वर्णिकाभाण्डं स्पृष्ट्वा स्पृष्ट्वाऽपनयति विक्षिपति । अन्यथा वर्णिकाबिन्दुपातः स्यादिति । नवबद्धवृषभ इव रोमन्थायमानस्तिष्ठामि । 'आपणे नगरचत्वरवृषभ इव' इति पाठान्तरेऽपि व्याख्या । दाणिं इदानीम् । दलिद्ददाए दरिद्रतया । यत्र कुत्रापि चरित्वा गृहपारावत इवावासनिमित्तं शयनार्थमत्रागच्छामि । एसो एषः । जूर्णवृद्धेन जाती कुसुमवासितोऽनुप्रेषितः प्रावारकः । सिद्धीकिददेवकजस्स निष्पा- दितदेवकार्यस्य । पाठान्तरे तु-षष्ठीव्रतकृतदेवकार्यस्येत्यर्थः । आर्यचारुदत्तस्योपनेतव्यः तद्यावत्पश्यामि । गृहदेवतानां बलिं हरन्नित एवाभिगच्छति । बलिं पूजाम् ॥ यासामिति । कीटमुखास्वादितो बीजाञ्जलिः पतति । विरूढा उप-