पृष्ठम्:मृच्छकटिकम्.pdf/१९९

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
१९१
अष्टमोऽङ्कः

 भिक्षुः----णमो बुद्धश्श; शलणागदम्हि । [नमो बुद्धाय; शरणा- गतोऽस्मि ।]

 विटः–गच्छतु ।।

 शकारः–णं शमएण । [ ननु सम1येन !]

 विटः---कीदृशः समयः ।।

 शकारः----तधा कद्दमं फेलदु, जधा पाणिअं पंकाइलं ण होदि । अधवा पाणिअं पुंजीकदुअ कद्दमे फेलदु । [ तथा कर्दमं प्रक्षिपतु, यथा पानीयं पङ्काविलं न भवति । अथवा पानीयं पुञ्जीकृत्य कर्दमे क्षिपतु ।

 विटः--अहो मूर्खता,--

विपर्यस्तमनश्चेष्टैः शिलाशकलवर्ष्मभिः।
मांसवृक्षैरियं मूर्खैर्भाराक्रान्ता वसुंधरा ॥ ६॥

( भिक्षुर्नाट्येनाक्रोशति )

 शकारः--- किं भणादि ? । [ किं भणति ? ।]

 विटः--स्तौति भवन्तम् ।।

 शकारः--थुणु थुणु, पुणो वि थुणु । [ स्तुनु स्तुनु, पुनरपि स्तुनु ।

( तथा कृत्वा निष्क्रान्तो भिक्षुः )

 विदः---काणेलीमातः ! पश्योद्यानस्य शोभाम्

अमी हि वृक्षाः फलपुष्पशोभिताः
कठोरनिष्पन्दलतोपवेष्टिताः ।
नृपाज्ञया रक्षिजनेन पालिता
नराः सदारा इव यान्ति निर्वृतिम् ॥ ७ ॥


पुत्रक हृदय अदस्वं (?) । भट्टारकं दउतिटिति नम इति प्रस्तावात् (?) । विटोऽयमर्थः (१) पंकाइलं पह्वाविलम्। कलुषमिति यावत् ॥ विपर्यस्तमिति । टिप्प- उच्यमानकार्यकरणस्य प्रतिज्ञया । -*-*-*-*-*-*-*-

  • -
  • -

-*-