पृष्ठम्:मृच्छकटिकम्.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८९
अष्टमोऽङ्कः

 विटः---काणेलीमातः । ननु धन्यस्त्वम्' 'पुण्यस्त्वम्' इति भवन्तं स्तौति ।

 शकारः-भावे ! ता कीश एशे इध आगदे ? । [ भाव ! तरिक- मर्थमेष इहागतः ? १]

 भिक्षुः—इदं चीवलं पक्खालिदुं । [ इदं चीवरं प्रक्षालयितुम् ।]

 शकारः-- अले दुश्टशमणका ! एशे मम बहिणीवदिणी शव्वुज्जा- णाणं पबले पुप्फकलंडुज्जाणे दिण्णे, जहिं दाव शुणहका शिआलापाणि पिअंति । हग्गे वि पबलपुलिशे मणुश्शके ण ण्हाआमि; तहिं तुमं पुक्खलिणीए पुलाणकुलत्थजूशशवण्णाइं उश्शगंधिआइं चीवलाइं पक्खालेशि । ता तुमं एक्कपहालिअं कलेमि । [ अरे दुष्टश्रम- णक ! एतन्मम भगिनीपतिना सर्वोद्यानानां प्रवरं पुष्पकरण्डोद्यानं दत्तम् , यन्न तावच्छुनकाः शृगालाः पानीयं पिबन्ति । अहमपि प्रवरपुरुषो मनुष्यको न स्नामिः तत्र त्वं पुष्करिण्यां पुराणकुलित्थयूषसवर्णान्युग्रगन्धीनि चीवराणि प्रक्षालयसि ? । ततेत्वामेकप्रहारिकं करोमि ।

 विटः--काणेलीमातः ! तथा तर्कयामि यथानेनाचि2रप्रव्रजितेन भवितव्यम् ।

 शकारः-कधं भावे जाणादि ? । [कथं भावो जानाति ? ।

 विटः- किमत्र ज्ञेयम् ? । पश्य

अद्याप्यस्य तथैव केशविरहाद्गौरी ललाटच्छविः
कालस्याल्पतया च चीवरकृतः स्कन्धे न जातः किणः ।
नाभ्यस्ता च कषायवस्त्ररचना दूरं निगूढान्तरं
वस्त्रान्तं च पटोच्छ्याप्रशिथिलं स्कन्धे न संतिष्ठते ॥ ५ ॥


पिबन्ति । हग्गे वि अहमपि । त्वमपि पुराणकुलित्थयूषसवर्णान्यूग्रगन्धीनि चीवराणि प्रक्षालयसि । एकप्रहारवन्तं करोमि । एकप्रहारेण मारणोक्तावयं प्रयोगः । अद्यापीति । गौरी ललाटे शोभा भवति । विरतस्य तस्यात्मनि स्वरूपगतिः (१)। | हिप्प०-1 सांप्रतमेव संन्यासाश्रमोऽनेन गृहीतोऽत एवायमपरिचितः संन्या-

सिनः कार्याकार्यस्येति भावः । तदेवाग्रमश्लोके वक्ष्यति ।