पृष्ठम्:मृच्छकटिकम्.pdf/१९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८४
मृच्छकटिके

 आर्यकः--भवतु, अवतरामि ।

 चारुदत्तः---सखे ! नावतरितव्यम् । प्रत्यापनीतसंयमनस्य भवतोऽल1घुसंचारा गतिः । सुलभपुरुषसंचारेऽस्मिन्प्रदेशे प्रवहणं विश्वासमुत्पादयति, तत्प्रवहणेनैव गम्यताम् ।

 आर्यकः--यथाह भवान् ।

 चारुदत्तः---

क्षेमेण व्रज बान्धवान्

 आर्यकः-

ननु मया लब्धो भवान् बान्धवः

 चारुदत्तः--

स्मर्तव्योऽस्मि कथान्तरेषु भवता

 आर्यकः--

स्वात्मापि विस्मर्यते ।

 चारुदत्तः----

त्वां रक्षन्तु पथि प्रयान्तममराः

 आर्यकः-

संरक्षितोऽहं त्वया

 चारुदत्तः-

स्वैर्भाग्यैः परिरक्षितोऽसि

 आर्यकः--

ननु हे तत्रापि हेतुर्भवान् ॥ ७ ॥

 चारुदत्तः----य2दुद्यते पालके महती र3क्षा न वर्तते, तच्छीघ्रमपक्रामतु भवान् ।।

पाठा---9 लघुसंवारा, अतिलघुसंचारा. २ यत्रोद्यते. ३ रक्षा वर्तते.