पृष्ठम्:मृच्छकटिकम्.pdf/१९१

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
१८३
सप्तमोऽङ्कः

ततः को भवान् ? ।

 आर्यकः-शरणागतो गोपालप्रकृतिरार्यकोऽस्मि ।

 चारुदत्तः---- किं घोषादानीय योऽसौ राजा पालकेन बद्धः ।।

 आर्यकः-अथ किम् ।

 चारुदत्तः--

विधिनैवोपनीतस्त्वं चक्षुर्विषयमागतः ।।
अपि प्राणानहं जह्यां न तु त्वां शरणागतम् ॥ ६ ॥

(आर्यको हर्षं नाटयति )

 चारुदत्तः---वर्धमानक ! चरणान्निगडमपनय ।

 चेटः---जं अज्जो आणवेदि । (तथा कृत्वा ) अज्ज ! अवणीदाइं णिगलाइं । [यदार्य आज्ञापयति । आर्य ! अपनीतानि निगडानि ।

 आर्यकः----स्नेहमयान्यन्यानि दृढतराणि दत्तानि ।

 विदूषकः---संगच्छेहि णिअडाइं । एसो वि मुक्को । संपदं अम्हे वञ्चिस्सोमो । [ संगच्छस्व निगडानि । एषोऽपि मुक्तः । सांप्रत वयं व्रजिष्यामः ।]

 चारुदत्तः- धिक्, शान्तम् ।

 आर्यकः-सखे चारुदत्त । अहमपि प्रणयेनेदं प्रवहणमारूढः; तत्क्षन्तव्यम् ।

 चारुदत्तः–अलंकृतोऽस्मि स्यंयंग्राहप्रणयेन भवता ।।

 आर्यकः--अभ्यनुज्ञातो भवता गन्तुमिच्छामि ।

 चारुदत्तः–गम्यताम् ।


करीति ॥ ५ ।। विधिनेति ॥ ६ ॥ अलघुर्मन्दः ॥ क्षेमेणेत्यादौ चारुदत्तार्य