सप्तमोऽङ्कः
(ततः प्रविशति चारुदत्तो विदूषकश्च )
विदूषकः---भो ! पेक्ख पेक्ख पुप्फकरंडअजिण्णुज्जाणस्स सस्सिरीअदां । [ भोः ! पश्य पश्य पुष्पकरण्डकजीर्णोद्यानस्य सश्रीकताम् ।।
चारुदत्तः-- वयस्य । एवमेतत् ; तथा हि ।
वणिज इव भान्ति तरवः पण्यानीव स्थितानि कुसुमानि । |
विदूषकः----भो । इमं असक्काररमणीयं सिलाअलं उवविसदु भवं । { भोः ! इदमसंस्काररमणीयं शिलातलमुपविशतु भवान् ।]
चारुदत्तः–( उपविश्य ) वयस्य । चिरयति वर्धमानकः ।।
विदूषकः---भणिदो मए वड्ढमाणओ-बसंतसेणिअं गेण्हिअ लहुं लहुं आअच्छ' ति । [ भणितो मया वर्धमानकः–'वसन्तसेनां गृहीत्वा लघु लघ्वागच्छ' इति ।]
चारुदत्तः- तत्किं चिरयति ?
किं या1त्यस्य पुरः शनैः प्रवहणं तस्यान्तरं मार्गते |
वणिज इति । शुल्कं राजदेयम् ॥ १॥ असक्कारमिति । अकृत्रिमं स्वभावत एवेत्यर्थः ॥ किमिति । कर्मान्तो राजादीनां नियोगविशेषः । तत्संबन्धिनि पाठा०—१ वर्त्मान्तोज्झित (=वर्त्मनो मार्गस्यान्ते मध्ये उज्झितेन त्यक्तेन )। टिप्प० अस्य वर्धमानकस्य, तस्य प्रवहणस्य, अन्तरमवकाशम् , प्रग्रहो वृषभयो रज्जुः, दारुणा महाकाष्ठेन , वारितगतिः निरुद्धवेगः, स्वैरं स्वेच्छानुरूपम् ,
प्रेरितगोयुगः प्रेरितवृषयुगः । अत्रोत्कण्ठा व्यङ्ग्या; ‘सर्वेन्द्रियसुखास्वादो यत्रास्तीत्यनुमन्यते । तत्प्राप्तीच्छां ससंकल्पामुत्कण्ठां कवयो विदुः' इति वचनात् ।