पृष्ठम्:मृच्छकटिकम्.pdf/१८५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७७
षष्ठोऽङ्कः

 वीरकः---अरे, पवहणवाहआ ! पडिवत्तावेहि पवहणं । पलोइस्सं । [अरे प्रवहणवाहक ! परिवर्तय प्रवहणम् , प्रलोकयिष्यामि ।।

 ( चेटस्तथा करोति, वीरकः प्रवहणमारोढुमिच्छति, चन्दनकः सहसा केशेषु गृहीत्वा पातयति, पादेन ताडयति च )

 वीरकः---( सक्रोधमुत्थाय ) अरे, अहं तुए वीसत्थो रोआण्णत्तिं करेंतो सहसा केसेसु गेण्हिअ पादेन ताडिदो । ता सुणु रे, अहिअरणमज्झे जइ दे चउरंगं ण कप्पावेमि, तदो या होमि वीरओ । [अरे, अहं त्वया विश्वस्तो राजाज्ञप्तिं कुर्वन्सहसा केशेषु गृहीत्वा पादेन ताडितः। तच्छणु रे, अधिकरणमध्ये यदि ते चतुरङ्गं न कल्पयामि, तदा न भवामि वीरः ।]

 चन्दनकः--अरे ! राअउलं अहिअरणं वा वच्च । किं तुए सुणअसरिसेण । [अरे ! राजकुलमधिकरणं वा ब्रज । किं त्वया शुनकसदृशेन ? । ]

 वीरकः-तथा । ( इति निष्क्रान्तः )

 चन्दनकः--( दिशोऽवलोक्य ) गच्छ रे पवहणवाहआ ! गच्छ । जइ को वि पुच्छेदि तदो भणेसि---‘चंदणअवीरएहिं अवलोइदं पवहणं वच्चइ। अज्जे वसंतसेणे ! इमं च अहिण्णाण दे देमि । [ गच्छ रे प्रवहणवाहिक ! गच्छ । यदि कोऽपि पृच्छति तदा भण-‘चन्दनकवीरकाभ्यामवलोकितं प्रवहणं व्रजति' । आर्ये वसन्तसेने ! इदं चाभिज्ञानं ते ददामि ।}{ इति खङ्गं प्रयच्छति )

 आर्यकः---( खङ्गं गृहीला, सहर्षमात्मगतम् )


स्थापनः । कर्तरीव्यापृतहस्तस्त्वमपि सेनापतिर्जातः ॥ २२ ॥ जादी तुज्झ विसुद्धेति । गाथा । जातिस्तव विशुद्धा माता मेरी पितापि ते पटहः । दुर्मुख करटकभ्राता त्वमपि सेनापतिर्जातः ॥ करटको वाद्यविशेषः ॥ २३ ॥ मृ० १2