(चन्दनकः संज्ञां ददाति )
वीरक–अरे, किं णेदं ? । [ अरे, किं न्विदम् ? । ]
चन्दनकः-
सिण्णसिलाअलहत्थो पुरिसाणं कुधगंठिसंठवणो । |
[शीर्णशिलातलहस्तः पुरुषाणां कूर्चग्रन्थिसंस्थापनः । |
वीरकः-अरे चंदणआ ! तुम पि माणिज्जंतो अप्पणो केरिकं जादिं ण सुमरेसि ।। [अरे चन्दनक ! त्वमपि मान्यमान आत्मनो जातिं न स्मरसि १ । ]
चन्दनक-अरे, का मह चंदणअस्स चंदविसुद्धस्स जादी । [ अरे, को मम चन्दनकस्य चन्द्रविशुद्धस्य जातिः ? । ]
वीरकः--को भणउ ? । [ को भणतु ? । ]
चन्दनक-भणउ, भणउ । [ भणतु, भणतु ।]
( वीरको नाट्येन संज्ञां ददाति )
चन्दनकः--अरे, किं णेदं ? । [अरे, किं न्विदम् ? ।]
वीरक-अरे, सुणाहि सुणाहि,--
जादी तुज्झ विसुद्धा मादा भेरी पिदा वि दे पङहो । |
[अरे, शृणु शृणु,-
जातिस्तव विशुद्धा माता भेरी पितापि ते पटहः ।। |
चन्दनकः--( सक्रोधम् ) अहं चंदणओ चम्मारओ तो पलोएहि पवहणं । [ अहं चन्दनकश्चर्मकारः, तत्प्रलोकय प्रवहणम् ।]
मनसि किं च कपित्थेन भग्नेन ॥ २१ ॥ संज्ञां ददातीति जात्युचितक्रियाभिनयः ॥ सिण्णेत्यादि । गाथा । शीर्णशिलातलहस्तः पुरुषाणां कूर्चग्रन्थिसं-