पृष्ठम्:मृच्छकटिकम्.pdf/१८३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७५
षष्ठोऽङ्कः

 चन्दनकः-(स्वगतम् ) अज्जगोवालदारओ अज्ञचारुदत्तस्स पवहणं अहिरुहिअ अवक्कमदि त्ति जइ कहिज्जदि, तदो अज्जचारुदत्तो रण्णा सासिज्जइ । ता को एत्थ उवाओ ? । ( विचिन्त्य ) कण्णाटकल-हप्पओअं कलेमि । ( प्रकाशम् ) अरे वीरअ ! मए चंदणकेण पलोइदं पुणो वि तुमं पलोएसि १ । को तुमं। [आर्यगोपालदारक आर्यचा- रुदत्तस्य प्रवहणमधिरुह्यापक्रमतीति यदि कथ्यते, तदार्यचारुदत्तो राज्ञा शास्यते । तस्कोऽत्रोपायः १ । कर्णाटकलदहप्रयोगं करोमि । अरे वीरक ! मया चन्दनकेन प्रलोकितं पुनरपि त्वं प्रलोकयसि ? । कस्त्वम् ? ।]

 वीरकः--अरे, तुम पि को ? । [ अरे, त्वमपि कः ? ।]

 चन्दनकः-पूइज्जंतो माणिज्जंतो तुमं अप्पणो जादिं ण सुमरेसि ? । [ पूज्यमानो मान्यमानस्त्वमात्मनो जातिं न स्मरसि ? । ]

 वीरकः--{ सक्रोधम् ) अरे, का मह जादी । [अरे, का मम जातिः १ ।।

 चन्दनकः--को भणउ ? । [ को भणतु ? ।]

 वीरकः---भणउ । [भणतु । ]

 चन्दनकः----अहवा ण भणामि,-

जाणंतो यि हु जादिं तुज्झ अ ण भणामि सीलविहवेण ।
चिट्ठउ महच्चिअ मणे किं च कइत्थेण भग्गेण ॥ २१ ॥

[ अथवा न भणामि,-

जानन्नपि खलु जातिं तव च न भणामि शीविभवेन ।
तिष्ठतु ममैव मनसि किं च कपित्थेन भग्नेन ।]

 वीरकः–णं भणउ, भणउ । [ ननु भणतु, भणतु ।]


ल्हीक-सार-खेर-सान-मुख-मधुघातप्रभृतीनाम् ॥ जाणंतो वीत्यादि । गाथा । जान्नपि खलु जातिं भणामि तव च न शीलविभवेन । तिष्ठतु ममैव