पृष्ठम्:मृच्छकटिकम्.pdf/१८२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७४
मृच्छकटिके

 वीरकः--

संभमघग्घरकंठो तुमं पि जादो सि जे तुए भणिदं ।।
दिट्ठो मए खु अज्जो पुणो वि अज्जा वसंतसेणेत्ति ॥ २० ॥

एत्थ मे अप्पच्चओ।

[ संभ्रमघर्घरकण्ठस्त्वमपि जातोऽसि यत्त्वया भणितम् ।
दष्टो मया खल्वार्यः पुनरप्यार्या वसन्तसेनेति ॥

अत्र मेऽप्रत्ययः ।]

 चन्दनकः--अरे, को अप्पच्चओ तुह । वअं दक्खिणत्ता अवत्तभासिणो । ख1ल-खत्ति-खडो खडट्टोविसअ-कण्णाट-कण्ण-पावरणअ- दविड-चोल-चीण-बर्बर-खेर-खान-मुख मधुधादपहुदाणं मिलिच्छजादीणं अणेअदेसभासाभिण्णा जहेट्ठं मंतआम, दिट्ठो2 दिट्ठा वा अज्जो अज्जआ वा। [ अरे, कोऽप्रत्ययस्तव ? । वयं दाक्षिणात्या अन्यक्तभाषिणः । खष-खत्तिकड-कडट्ठोबिल-कर्णाट कर्ण-प्रावरण-द्वाविड-चोल-चीन-बर्बर-खेर-खान-मुख-मधुघातप्रभृतीनां म्लेच्छजातीनामनेकदेशभाषाभिज्ञा यथेष्टं म3न्त्रयामः, दृष्टो दृष्टा वा, आर्ये आर्या वा ।।

 वीरकः--णं अहं पि पलोएमि । राअअण्णा एसा । अहं रण्णो पञ्चइदो । [ नन्वहमपि प्रलोकयामि । राजाज्ञैषा । अहं राज्ञः प्रत्ययितः ।

 चन्दनकः--ता किं अहं अप्पच्चइदो संवुत्तो ? । [तस्किमहमप्रत्य- यितः संवृत्तः १ ।]

 वीरकः--णं सामिणिओओ । [ ननु स्वामिनियोगः ।]


यत्त्वया भणितम् । दृष्टो मयेह आर्यः पुनरपि वसन्तसेनेति ॥ २० ॥ खष-खत्ति----कड़-कडट्ठोबिल-कर्णाट-कर्ण-प्रावरण-द्राविड-चोल-चीन-बर्बर-विराट-वा टिप्प०----1 खषेलादीनि कुलदेशोपहितानि म्लेच्छजातिनामानीति बोध्यम् ।

2 को नामात्र शब्दविचारः, स्त्रीपुंनपुंसकव्याख्यानमप्रस्तुतमित्याशयः। 3 भाषामहे ।