पृष्ठम्:मृच्छकटिकम्.pdf/१८१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७३
षष्ठोऽङ्कः

राधो सरणाअदो अज्जचारुदत्तस्य पवहणं आरूढो, पाणप्पदस्स मे अज्जसव्विलअस्स मित्तं । अण्णदो राअणिओओ । ता किं दाणिं एत्य जुत्तं अणुचिट्ठिदुं ?। अधवा जं भोदु तं भोदु, पढमं ज्जैव अभयं दिण्णं ।

भीदाभअप्पदाणं दत्तस्स परोवआररसिअस्स।
जह होइ होउ णासो तहवि हु लोए गुणो ज्जेव ॥ १९ ॥

( सभयमवतीर्य ) दिट्टो अज्जो–( इत्यर्धोक्ते ) ण, अज्जआ वसंतसेणा । तदो एसा भणादि-जुत्तं णेदं, सरिसं णेदं, जे अहं अज्जचारुदत्तं अहिसारिदुं गच्छंती राअमग्गे परिभूदा' । [ कथमार्यको गोपालदारकः श्येनवित्रासित इव पत्ररथः शकु1निकस्य इस्ते निपतितः १ । एषोऽनपराधः शरणागत आर्यघारुदत्तस्य प्रवहणमारूढः, प्राणपदस्य मे आर्यशर्विलकस्य मित्रम् । अन्यतो राजनियोगः । तकिमिदानीमत्र युक्तमनुष्टातुम् ।। अथवा यद्भवतु तद्भवतु, प्रथममेवाभयं दत्तम् ।।

भीताभयप्रदानं ददतः परोपकाररसिकस्य ।
यदि भवति भवतु नाशस्तथापि खलु लोके गुण एवं ॥

दृष्ट आर्यः। न, आर्या वसन्तसेना । तदेषा भणति,---‘युक्तं नेदम् , सदृशं नेदम्, यदहमार्यचारुदत्तमभिसर्तुं गच्छन्ती राजमार्गे परिभूता' ।]

 वीरकः--चंदणआ ! एत्थ मह संसओ समुप्पण्णो । [ चन्दनक ! अत्र मे संशयः समुत्पन्नः ।]

 चन्दनक---कधं दे संसओ ? । [ कथं ते संशयः ? ।]


कृता (१)। यदाह प्राणप्रदस्येति । भीदाभअ इति । गाथा । भीताभयप्रदानं ददतः परोपकाररसिकस्य ! यदि भवति भवतु नाशस्तथापि खलु लोके गुण एव ॥ १९ ॥ संभमेत्यादि । गाथा । संभ्रमघर्धरकण्ठो यत्त्वं जातोऽसि

टिप्प०---1 व्याधस्येत्यर्थः;‘जीवान्तकः शाकुनिको द्वौ वागुरिकजालिकौ' इत्यमरः ।