पृष्ठम्:मृच्छकटिकम्.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७२
मृच्छकटिके

 चन्दनकः–मए अवलोइदं तुए अवलोइदं मोदि ? । [ मयाव- लोकितं त्वयावलोकितं भवति ? ।]

 वीरकः--जं तुए अवलोइदं तं रण्णा पालएण अवलोइदं । [यत्त्वालोकित तद्राज्ञा पालकेनावलोकितम् ।]

 चन्दनकः---अरे, उण्णामेहि धुरं । [ अरे, उन्नामय धुरम् ।]

(चेटस्तथा करोति )।

 आर्यकः-(स्वगतम् ) अपि रक्षिणो मामवलोकयन्ति । अशस्त्र- श्वास्मि मन्दभाग्यः । अथवा

भीम1स्यानुकरिष्यामि बाहुः शस्त्र भविष्यति ।
वरं व्या2यच्छतो मृत्युर्न गृहीतस्य बन्धने ॥ १७ ॥

अथवा साहसस्य तावदनवसरः ।।

( चन्दनको नाट्येन प्रवहणमारुह्यावलोकयति )

 आर्यकः--शरणागतोऽस्मि ।।

 चन्दनकः-(संस्कृतमाश्रित्य) अभयं शरणागतस्य ।

 आर्यकः--

त्यजति किल तं जयश्रीर्जहति च मित्राणि बन्धुवर्गश्च ॥
भवति च सदोपहास्यो यः खलु शरणागतं त्यजति ॥ १८॥

 चन्दनकः--कधं अज्जओ गोवालदारओ सेण वित्तासिदो विअ पत्तरहो साउणिअस्स हत्थे णिवडिदो ? । ( विचिन्त्य ) एसो अणव-


तन्तिलश्चिन्तापरः ॥ राज्ञा पालकनाम्ना ॥ भीमस्येति । व्यायच्छतः परपरिभवं कुर्वतः ॥ १७॥ त्यजतीति ॥ १८ ॥ पत्तरहो पत्ररथः पक्षी । शाकुनिकस्य पक्षिणां हन्तुः । त्वथनिमितजस्य चन्दनकस्य सापराधस्य चारभत्तेन 5.***

हिप्प०-----1 इयं कर्मणि षष्ठी; भीममनुकरिष्यामीति भावः । 2 करचरणादिप्रहारमपि ददतो वा ।