पृष्ठम्:मृच्छकटिकम्.pdf/१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०
मृच्छकटिके

भोदु अज्जो। [आश्चर्यम्, तस्मात्कथं मयैवं सुसमृद्धायामुज्जयिन्यामस्मादृशजनयोग्यो ब्राह्मणोऽन्वेषितव्यः? एष चारुदत्तस्य मित्रं मैत्रेय इत एवागच्छति। भवतु, प्रक्ष्यामि तावत्। अद्य मैत्रेय! अस्माकं गृहेऽशितुमग्रणीर्भवत्वार्यः।]

(नेपथ्ये)

भो! अण्णं बम्हणं उवणिमंतेदु भवं; वावुडो दाणिं अहं। [भोः! अन्यं ब्राह्मणमुपनिमन्त्रयतु भवान्; व्यापृत इदानीमहम्।]

सूत्रधारः— अज्ज! संपण्णं भोअणं णीसवत्तं च। अवि अ दक्खिणा वि दे भविस्सदि। [आर्य! सम्पन्नं भोजनं निःसपत्नं च। अपि च दक्षिणापि ते भविष्यति।]

भो, जधा दाणिं पढमं ज्जेव्व पच्चादिट्ठोसि, ता को दाणिं दे णिब्बंधो पदे पदे मं अणुबंधेदुं? [भोः, यदिदानीं प्रथममेव प्रत्यादिष्टोऽसि, तत्क इदानीं ते निर्बन्धः पदे पदे मामनुरोद्धुम्?]


मैत्रेयः । इदो जेव्य इत एव । आगच्छदि । भवतु, इममुपनिमन्त्रयिष्ये ।अद्य मैत्रेय ! अस्माकं गृहे भोक्म्तुम् । अग्गणी अग्रणीः। प्रष्ठोऽग्रगामीति यावत् । अधिदी भोदु' इत्यपि पाठः । तत्रातिथिर्भवलियर्थः । भो ! अप्ण अन्यम् । बम्हणं ब्राह्मणम् । उवणिमंतेदु उपनिमन्त्रयतु भवान् वावुडो व्यापृतः । अहमिदानींं कार्यान्तरव्न्यासक्तः । दाणिं इदानीम् ॥ संपन्नं मृष्टम् । णीसवत्तं च । पितॄणां समुत्सृष्टं घृतादिसहिततण्डुलपूर्णपात्रम् । 'निःस्राव' इति यस्य प्रसिद्धिः । ‘णीसवत्तं नि:सपत्न। विपक्षस्यापरस्याभावात्' इति केचित् । अपि च दक्षिणापि ते भविष्यति । एकः अपि:' संभावनायाम् , अपरः समुच्चये। भो । दाणिं पचादि- ट्ठोसि इदानीं प्रत्यादिष्टोऽसि । को दाणिं क इदानीम् । दे णिब्बंधो ते निर्बन्धः ।। मं माम् । पदे पदे अणुबंधेदु अनुरोद्धुम् ॥ पञ्चादिट्टो म्हि प्रत्यादिष्टोऽस्मि । एदिणा अनेन । भोदु भवतु । अण्णं अन्यम् । बम्णहं ब्राह्मणम् । उवणिमंते मि उपनिमन्त्रयिष्ये ॥ प्रस्तावनेत्यामुखसंधिपर्यायः ।यदुक्तम्-सूत्रधारेण सहिताः