पृष्ठम्:मृच्छकटिकम्.pdf/१७९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७१
षष्ठोऽङ्कः

[ अरे आर्यचारुदतं न जानासि, न वा वसन्तसेनाम् ? । यद्यार्यचारुदत्तं वसन्तसेनां वा न जानासि, तदा गगने ज्योत्स्नासहितं चन्द्रमपि त्वं न जानासि ।।

कस्तं गुणारविन्दं शीलमृगाङ्कं जनो न जानाति ।
आपन्नदुःखमोक्षं चतुःसागरसार रत्नम् ॥
द्वावेव पूजनीयाविह नगर्यां तिलकभूतौ च ।
आर्या वसन्तसेना धर्मनिधिश्चारुदत्तश्च ॥]

 वीरकः---अरे चंदणआ ।

जाणामि चारुदत्तं वसंतसेणं अ सुट्ठु जाणामि । पत्ते अ राअकज्जे पिदरं पि अहं ण जाणामि ॥ १५ ॥</poem>}}}}

[अरे चन्दनक ! ।

जानामि चारुदत्तं वसन्तसेनां च सुष्ठु जानामि ।
प्राप्ते च राजकार्यॆ पितरमप्यहं न जानामि ॥]

 आर्यकः--( स्वगतम् ) अयं मे पूर्ववैरी, अयं मे पूर्वबन्धुः, यतः

एककार्यनियोगेऽपि ना1नयोस्तुल्यशीलता ।
विवाहे च चितायां च यथा हुतभुजोर्द्वयोः ॥ १६ ॥

 चन्दनकः—तुमं तंतिलो सेणावई रण्णो पञ्चइदो । एदे धारिदा मए बइल्ला । अवलोएहि । [ त्वं तन्ति2ल्लः सेनापती राज्ञः प्रत्ययितः । एतौ धारितौ मया बलीवर्दौ । अवलोकय ।]

 वीरकः-- तुमं पि रण्णो पञ्चइदो बलवई । ता तुमं ज्जैव अवलोएहि । [ त्वमपि राज्ञः प्रत्ययितो बलपतिः । तस्मात्त्वमेवावलोकय ।]


आर्या वसन्तसेना धर्मनिधिश्चारुदत्तश्च ॥ १४ ॥ जानामीति । गाथा । जानामि चारुदत्तं वसन्तसेनां च सुष्ठु जानामि । प्राप्ते च राजकार्ये पितरमप्यहं न जानामि । प्राप्ते चेति चकारः पुनरर्थे ॥ १५ ॥ एकेति ॥ १६ ॥ दिप-1 चन्दनक-वीरकयोः। 2 चिन्तापरः ।