पृष्ठम्:मृच्छकटिकम्.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६७
षष्ठोऽङ्कः

 चन्दनकः-अरे रे वीरअ विसल्ल-मीमंगअ-दंडकालअ-दंड-सूरप्पमुहा !

आअच्छध वीसत्था तुरिअं जत्तेह लहु करेज्जाहि ।
लच्छी जेण ण रण्णोपहवइ गोत्तंतर गंतुं ॥ ६ ॥

अवि अ,

उज्जाणेसु सहासु अ मग्गे णअरीअ आवणे घोसे ।
तं तं जोहह तुरिअं संका वा जाअए जत्थ ॥ ७ ॥
रे रे वीरअ ! किं किं दरिसेसि भणाहि दाव वीसद्धं ।
मेत्तूण अ बंधणअं को सो गोवालदारअं हरइ ॥ ८ ॥
कस्सट्टमो दिणअरो कस्स चउत्थो अ वट्टए चंदो।
छट्ठो अ भग्गवगहो भूमिसुओ पंचमी कस्स १ ॥ ९ ॥
भण कस्स जम्मछट्ठो जीवो णवमो तहेअ सूरसुओ।
जीअंते चंदणए को सो गोवालदारअं हरइ ॥ १० ॥

अरे रे वीरक-विशल्य-भीमाङ्गद-दण्ढकाल-दण्डरप्रमुखाः,

आगच्छथ विश्वस्तास्त्वरितं यतध्वं लघु कुरुत ।
लक्ष्मीर्यैन ने राज्ञः प्रभवति गोत्रा1न्तरं गन्तुम् ॥

अपि च,-

उद्यानेषु सभासु च मार्गे नगर्यामापणे घोषे ।
तं तमन्वेषयत स्वरितं शङ्का वा जायते यत्र ॥


भीमाङ्गद-दण्डकाल-दण्डशूरप्रमुखाः । आअच्छध इति । गाथापच्चकम् । आगच्छत विश्वतास्त्वरितं यतत लघु कुरुत । लक्ष्मीर्येन न राज्ञः प्रभवति गोत्रान्तरं गन्तुम् ॥ ६ ॥ उद्यानेषु सभासु च मार्गे नगर्यां आपणे घोषे । तत्तद्योजयत त्वरिता शङ्का वा जायते यत्र ॥ ७ ॥ अरे रे वीरक किं किं दर्शयसि ब्रवी- ( ब्रू ) हि तावद्विश्वस्तम् । मोचयित्वा बन्धनकं कोऽसौ गोपालकं हरति ॥ ८ ॥ कस्याष्टमो दिनकरः कस्य चतुर्थश्च वर्तते चन्द्रः । षष्ठश्च भार्गवग्रहो भूमिसुतः पञ्चमः कस्य ॥ ९ ॥ भण कस्य जन्मषष्ठो जीवो नवमस्तथैव

टिप्प००-1 अन्यां भूमिम् , कुलान्तरं वा गन्तुमित्यर्थः ।