पृष्ठम्:मृच्छकटिकम्.pdf/१७४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६६
मृच्छकटिके

[कथं नुपुरशब्दः । तदागता खल्वार्या । आर्ये ! इमौ नासिकारज्जुकटुकौ बलीवदौ । तत्पृष्ठत एवारोहत्वार्या ।]

( आर्यकतथा करोति )

 चेटः–पादुप्फालचालिदाणं णेउलाणं वीशंतो शद्दो, भलक्कंते अ पवहणे । तथा तक्केमि शंपदं अज्जआए आलूढाए होदव्वं; ता गच्छामि । जाध गोणा ! जाध । [पादोत्फालचालितानां नूपुराणां विश्रान्तः शब्दः, भाराकान्तं च प्रवहणम् । तथा तयामि सांप्रतमार्ययारूढया भवितव्यम् । तद्गच्छामि । यातं गावौ ! यातम् ।] ( इति परिक्रामति )

( प्रविश्य )

 वीरक–अरे रे, अरे जअ-जअमाण-चंदणअ-मंगल-पुल्लभद्दप्पमुहा !

किं अच्छध वीसद्धा जो सो गोवालदारओबद्धो ।
मेत्तूण समं वयाइ णरवइहिअअं अ बंधणं चावि ॥ ५ ॥

अले पुरत्थिमे पदोलीदुआरे चिट्ठ तुमं । तुमं पि पच्छिमे, तुमं पि दक्खिणे, तुमं पि उत्तरे । जो वि एसो पाआरखंडो, एवं अहिरुहिअ चंदणेण समं गदुअ अवलोएमि । एहि चंदणअ । एहि, इदो दाव । [ अरे रे, अरे जय-जयमान-चन्दनक-मङ्गल-पुष्पभद्गप्रमुखाः !

किं स्थ विश्रब्धा गच्छथ यः स गोपालदारको बद्धः ।
भित्त्वा समं ब्रजति नरपतिह्रदये च बन्धनं चापि ॥

अरे, पुरस्तात्प्रतोलीद्वारे तिष्ठ त्वम्, त्वमपि पश्चिमे, त्वमपि दक्षिणे, त्वमप्युत्तरे । योऽप्येष प्राकारखण्डः, एनमधिरुह्य वन्दनेन समं गत्वावलोकयामि। एहि चन्दनक ! एहि । इतस्तावत् ।]


क्तम् ॥ जग-जयमान-चन्दनक-मङ्गलक-पुण्योटकमुखाः । किं अच्छधेत्यादि । गाथा । किं तिष्ठथ विश्वस्ता योऽसौ गोपालदारको बद्धः । भित्त्वा समं व्रजति नरपतिहृदयं च बन्धनं चापि ॥ ५ ॥ पुरत्थिमे पूर्वस्मिन् वीरक विशल्य