पृष्ठम्:मृच्छकटिकम्.pdf/१६९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६१
षष्ठोऽङ्कः

 वसन्तसेना--हञ्जे ! चिट्ठदु मुहुत्तअं; जाव अहं अताणअं पसाधेमि । [ चेटि ! तिष्ठतु मुहूर्तकम् ; यावदहमात्मानं प्रसाधयामि ।]

 रदनिका--( निष्क्रम्य ) वड्ढमाणआ ! चिठ्ठ मुहुतअं; जावं अज्जआ अत्ताणसं पसाधेदि । [ वर्धमानक ! तिष्ठ मुहूर्तकम् ; यावदार्यात्मानं प्रसा- धयति ।]

 चैटः---ही ही भो, मए वि जाणत्थलके विशुमलिदे । ता जाव गेण्डहअ आअच्छामि । एदे णश्शालज्जुकडुआ बइल्ला। भोदु, पवहणेण ज्जेव गदागदिं कुलिश्शं । [ ही ही भोः ! मयापि यानास्तरणं विस्मृतम् । तद्यावद्गृहीत्यागच्छामि । एतौ नासिकारज्जुकटुको बलीवदौ । भवतु, प्रवहणेनैव गतागतिं करिष्यामि । ] ( इति निष्क्रान्तचेटः )।

 वसन्तसेना--हञ्जे ! उवणेहि मे पसाहणं । अत्ताणणअं पसाधइस्सं । [चेटि ! उपनय मे प्रसाधनम्। आत्मानं प्रसाधयिष्यामि । ] ( इति प्रसाधयन्ती स्थिता )

( प्रविश्य प्रवहणाधिरूढः )

 स्थावरकश्चेटः--आणत्तम्हि लाअशालअशंठाणेण- ‘यावलआ ! पवहणं गेण्हिअ पुप्फकलंडअं जिण्णुज्जाणं तुलिदं आअच्छेहि त्ति । भोदु, तहिं ज्जैव गच्छामि । बहध बइल्ला | वहध । ( परिक्रम्यावलोक्य च ) कधं गामशअलेहि लुद्धे मग्गे ? । किं दाणिं एत्थ कलइश्शे १ । ( साटोपम् ) अले ले, ओशलध ओशलध । ( आकर्ण्य ) किं भणाध-‘एशे कश्शकेलके पवहणे' त्ति ? । एशे लाअशालअशंठाणकेलके पवहणे त्ति । ता शिग्धं ओशलध । ( अवलोक्य ) कधं


निष्कान्तः ॥ उद्घाटित पक्षद्वारकम् (?) ॥ ही ही इत्युकस्मात्स्मरणविषयेण । जाणत्थलके यानास्तरणकम् । मस्साकदुआ नासिकारज्ज्वा दुःसहाः । अतोऽतिक्रमः संभाव्यते । ‘णस्साकडुआ' इत्यपि पाठः । तत्र नस्याकटुको इत्यर्थः । बइल्ला मृ० ११