पृष्ठम्:मृच्छकटिकम्.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५७
षष्ठोऽङ्कः

ता अज्ज पञ्चक्खं पेक्खिस्सं । हज्जे । किं पविट्टा अहं इह अब्भंतरचदुस्सालयं ।। [ घेरि ! सुष्टु न निध्याते रात्रौ, तदा प्रत्यक्षं प्रेक्षिष्ये । चेटि । किं प्रविष्टाहमिहाभ्यन्तरचतुःशालकम् ? ।]

 चेटी----ण केवलं अब्भतरचदुस्साल, सव्वजणस्स वि हिअअं पविठ्ठा । [न केवलमभ्यन्तरचतुःशालकम् , सर्वजनस्यापि हृदयं प्रविष्टा ।]

 वसन्तसेना--अवि संतप्पदि चारुदत्तस्स परिअणो ? । [ अपि संतप्यते चारुदत्तस्य परिजनः ।।

 चेटी--संतप्पिस्सदि । [ संतप्स्यति । ]

 वसन्तसेना-कदा ! । [ कदा ?।]

 चेटी---जदो अज्जआ गमिस्सदि । [यदाय गमिष्यति ।]

 वसन्तसेना-तदो मए पढ मं संतप्पिदव्वं । ( सानुनयम् ) हञ्जे ! गैण्ह एदं रअणावलिं । मम बहिणीआए अज्जाधूदाए गदुअ समप्पेहि । भणिदव्वं च--‘अहं सिरिचारुदत्तस्स गुणणिज्जिदा दासी, तदा तुम्हाणं पि । ता एसा तुह ज्जेव्व कंठाहरणं हो रअणविली' । [ तदा मया प्रथमं संतप्तव्यम् । चेटि! गृहाणैतां रखावलीम् । मम भगिन्या आर्याधूतायै गत्वा समर्पय । वक्तव्यं च---*अहं श्रीचारुदत्तस्य गुणनिर्जिता दासी, तदा युष्माकमपि । तदेषा तवैव कण्ठाभरणं भवतु रत्नावली' ।।

 बेटी---अज्जए ! कुपिस्सदि चारुदत्तो अज्जाए दाव । [ आर्ये ! कुपिष्यति चारुदत्त आर्यायै तावत् ।]

 वसन्तसेना–गच्छ; ण कुपिस्सदि । गच्छ; न कुपिण्यति ।]

 चेटी--( गृहीत्वा ) जं आणवेदि । ( इति निष्कम्य, पुनः प्रविशति ) अज्जए ! भणादि अज्जा धूदा--अज्जउत्तेण तुम्हाणं पसादीकिदा;