पृष्ठम्:मृच्छकटिकम्.pdf/१६०

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
१५२
मृच्छकटिके

 विदूषकः--भो। अलं अदिमेत्तं संतप्पिदेण ।( प्रकाशं, सपरिहासम्) भोदि ! समप्पीअदु ममकेरिआ ण्हाणसाडिआ । [भोः! अलमतिमात्रं संतापितेन । भवति ! समप्यर्तां मम खानशाटिका।]

 वसन्तसेना---अज्ज चारुदत्त ! जुत्तं1 ण्णेदं इमाए रअणावलीए इमं जणं तुलइदुं । [आर्य चारुदत्त ! युक्तं नेदमनया रत्नावल्या इमं जनं तुलयितुम् ।]

 चारुदत्तः-- ( सविलक्षस्मितम् ) वसन्तसेने ! पश्य पश्य

कः श्रद्धास्यति भूतार्थ सर्वो मां तुलयिष्यति ।।
शङ्कनीया हि लोकेऽस्मिन्नि2ष्प्रतापा दरिद्रता ॥ ४३ ॥

 विदूषकः--हञ्जे ! किं भोदीए इध ज्जेव्व सुविदव्वं ?। [चेटि ! किं भवत्या इहैव सुप्तव्यम् ? ।  चेटी-( विहस्य ) अज्ज मित्तेअ! अदिमेत्तं दाणिं उजुअं अत्ताणअं

दंसेसि । [आर्य मैत्रेय ! अतिमात्रमिदानीसृजुमात्मानं दर्शयसि । ]

 विदूषकः–भो वअस्स ! एसो खु ओसारअंतो विअ सुहोवविट्टं जणं पुणो वि वित्थारिवारिधाराहिं पविट्टो पज्जण्णो । [ भो वयस्य ! एष खल्वपसारयन्निव सुखोपविष्टं जनं पुनरपि विस्तारिवारिधाराभिः प्रविष्टः पर्जन्यः।]


विस्मरणवतां पुंसाम् ॥ ४२ ॥ मत्संबन्धिनी स्नानशाटिका ॥ तुलयितुमिति । लुब्धालुब्धजिज्ञासया बहुमूल्याया रत्नावल्या अल्पमूल्यसुवर्णभाण्डस्य टिप्प०-1 मद्दत्तसुवर्णभाण्डगमने तत्प्रतिदानतया रक्षावलीदाने न युक्तम् । येषां जनानां मेदस्त एवान्योन्यं वसुनि गते सति देयोपादेयभावमावहन्ति, येषां तु तादात्म्यं तेषु नायं भाव इति भावः । 'इमं जनम्' इत्युक्तिर्विनय-गर्वयोरप्याविर्भावि- केति तत्त्वम् । 2 भाग्यवतेश्वरेण यदसदपि कृतं तत् सदिव प्रतिभाति, दरिद्रेण तु सदपि कृतं नातिभाति: पुनरसतः का कथा ? किं चास्माकमकिञ्चनानामस्मिन्विषये

चौर्यस्य रत्नमालाप्रतिदानसावधानतायामेव सर्वानर्थनिवारणमिति भावः ।