पृष्ठम्:मृच्छकटिकम्.pdf/१५८

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
१५०
मृच्छकटिके

 विषकः--( सहर्षम् ) भो वअस्स ! तं जेव्व एदं सुवण्णभंडअं, जं अम्हाणं गेहे चोरेहिं अवहिदं । [ भो वयस्य ! तदेवेदं तस्सुवर्णभाण्डम् , यदस्माकं गृहे चौरैरपहृतम् । ]

 चारुदत्तः–वयस्य !

{{block center|{{bold|<poem>योऽस्मा1भिश्चिन्तितो व्याजः कर्तुं न्यासप्रतिक्रियाम् ।। स एव प्रस्तुतोऽस्माकं किंतु सत्यं विडम्बना ॥ ३९ ॥

 विदूषकः--भो वअस्स ! सच्च सवामि बम्हण्णेण । [ भो वयस्य ! सत्यं शपे ब्राह्मण्येन ।

 चारुदत्तः---प्रियं नः प्रियम् ।।

 विदूषकः-( जनान्तिकम् ) भो ! पुच्छामि-णं कुदो एदं समा- सादिदं त्ति । [भोः ! पृच्छामि-ननु कुत इदं समासादितमिति ।]

 चारुदत्तः--को दोषः १ ।।

 विदूषकः---(चेट्याः कर्णे) एवं विअ । [एवमिव । ]

 चेटी—( विदूषकस्य कर्णे ) एव्वं विअ । [एव2मिव ।]

 चारुदत्तः--किमिदं कथ्यते ।। किं वयं बाह्याः १ ।।

 विदूषकः---(चारुदत्तस्य कर्णे ) एवं विअ । [एव3मिव ।]


प्रेष्यतां भुज्यताम् (१) । य इति । किं तु स एव व्याजो विडम्बनास्माकं प्रस्तुत आरब्धा । ३९ ॥ अथवा सत्यमेवेदम् । अथवेति प्रकरणात्प्रतीयते । बम्हण्णेण


टिप्प०-1 स व्याज एवास्माकं प्रस्तुतो रसावलीप्रत्युत्तरत्वेनावतीर्ण इति निष्कर्षः। 2 शर्विलकेन वसन्तसेनाया गृहं गत्वा यस्य सुवर्णभाण्डस्य दानेन मदनिका निष्क्रीता तदेवेदं सवर्णभाण्डमिति ‘एवमिव इत्यस्याशयः । 3 तत्सर्वं विदूषकेन चारुदत्ताय कथितं 'एवमिव' इत्यनेन ।